________________
सर्ग -८
૩૦૯
"
प्रदक्षिणा त्रयीं दत्वा सत्वानुकंपिताशयः । नत्वा क्रमौ महीनाथो, यथास्थानमुपाविशत् ॥ ७१ ॥ उपविश्याश्रृणोद्धर्म – देशनां पापनाशिनीं । श्रुत्वा भूपोऽवदन्नाथ, जैनधर्मं प्रदर्शय ॥७२॥ इत्युक्ते भूभुजा साधु–रभ्यधाच्छृणु पार्थिव । साधुश्रद्धालुधर्माभ्यां, जिनैधर्मो द्विधोदितः ॥ ७३॥ तत्र वाचंयमानां यः, स तु पंचमहाव्रतः । जिनेंद्रैः कथितो धर्मः, श्राद्धानां द्वादशवतः ॥७४ || तन्मध्याद्यत्र ते शक्ति—स्तं धर्ममुररीकुरु । निशम्येति यतेर्वाक्य – मचितयन्मधुर्नृपः ॥ ७५ ॥ परस्त्रीसेवनादीनि, घोराणि पातकानि च । विहितानि मया दुष्ट - चेतसा रागबुद्धितः ॥ ७६ ॥ यथा विशुद्धिः पापानां तेषां खलु भविष्यति । गुरुशिक्षा ततो दीक्षा, शुद्धयै समुचिता मम ॥७७॥ विचार्येत्यवदद्भूपः, स्वामिन् संसारवासतः । भीतो न्यस्य सुते राज्यं, प्रवजिष्यामि तेंतिके । ७८ ।। कथितं यतिना राजन् यथा सुखं तथा कुरु । इति यतिवचः श्रुत्वा, नत्वा भूपोऽगमद् गृहं ॥ ७९ ॥ गेहमागत्य भूपाल - वारित्रग्रहणेच्छया । स्वराज्ये स्थापयामास, विनीतं ज्येष्टमंगजं ॥ ८० ॥ स्थापयित्वा सुतं राज्ये, राजा वैराग्ययोगतः । दीक्षां केवलिनः साधोः, पार्श्वेऽग्रहीन्महोत्सवैः ८१ । पतिव्रता भवेद्या स्त्री, सा स्यात्पत्यनुगामिनी । तयेत्यग्रमहिष्यापि चारित्रमुररीकृतं ॥८२॥ कैटभनामधेयो यो — ऽनुजोऽभूत्तस्य भूपतेः । तेन स्वयोषिता साकं, जगृहे चरणं मुदा ॥८३॥ उभाभ्यामपि भ्रष्टाहं, संजातेति निजे हृदि । मत्वा सेंदुप्रभाराज्ञी, जग्राह व्रतिनीवतं ॥ ८४ ॥ चारित्रं ते समादाय, कुर्वाणा विनयं गुरोः । अध्यगीषंत शास्त्राणि, वैराग्योत्पादकानि च ॥ ८५ ॥ तपः कृशानुना कर्तुं कर्मेधनानि भस्मसात् । दुस्सहं तपयामासु -- स्तपः कर्मक्षयाय ते ॥ ८६ ॥ अधीत्यानल्पशास्त्राणि, कृत्वा तीव्रतमं तपः । मृत्वा समाधिना जग्मुः सर्वेऽपि त्रिदशालयं । ८७ ॥ इंदु प्रभापि चारित्रं, सम्यक्प्रपाल्य पुण्यतः । गत्वा स्वर्ग सुखं भुंक्त्वा, च्युतायुः क्षययोगतः ८८ वैताढ्यशिखरिण्यास्ति, नगरं गिरिषत्तनं । तत्रास्ति हरिभूपाल — स्तस्य स्त्री हरिवत्यभूत् ॥ ८९ ॥ भुंजानयोस्तयोर्भोगां - स्तनयस्थापिताशयोः । सुता हरिवतीकुक्षौ जाता च्युत्वा सुरालयात्। ९० तस्याः कमलमालेत्या —ख्या पितृभ्यां विनिर्मिता । मेघकूटपुरे काल - संवरेण विवाहिता ॥ ९१ ॥
,
અનિત્ય આદિ ખાર ભાવનાનુ` ચિંતન કરતા મહારાજા રાજ્યનું પાલન કરી રહ્યા છે. તેવામાં પાંચ સમિતિનું પાલન કરતા, માધુકરી ભિક્ષાની શેાધ કરતા કાઈ એક મહામુનિ, આહારને માટે રાજમહેલમાં આવ્યા. મુનિને જોઇને આનંદિત બનેલા રાજાએ ભક્તિભાવ પૂર્વક વંદન કર્યુ. અને અ ંદર લઈ જઈને ઈંદુપ્રભાની સાથે રાજાએ મુનિરાજને ચાર પ્રકારનેા શુદ્ધ આહાર વહેરાવ્યા. હેારાવીને હું અને બહુમાનથી રોમાંચિત બનેલા રાજાએ ખૂબ ખૂબ અનુમેાદના કરી. રાજમહેલમાં નિર્દોષ આહારની પ્રાપ્તિથી ખુશ થયેલા મહામુનિએ ઉદ્યાનમાં જઇને આદરપૂર્ણાંક સાધુચર્યાંનુ પાલન કરાને અનાસક્તભાવે આહાર કર્યાં. શુદ્ધ આહાર