________________
सर्ग-८
२८७
1
कलावता मनुष्येण, रूपिणा धनिना सह । एकांते मिलने जाते, प्रायो द्रवंति योषितः ||१९|| कामातुराणि वाक्यानि, समाकर्ण्य महीपतेः । स्वचित्ते धैर्यमालंन्य, जगादेंदुप्रभा नृपं ॥ २०॥ परस्त्रीसंगतो लोकापवादो भवति क्षितौ । परस्त्रीतो मिथो वैरं, मित्रेष्वपि प्रवर्ध ॥२१॥ परस्त्रीसंगमाभावा—न्मनस्तापो निरंतरं । परस्त्रीतः शरीरस्य, बलक्षयः प्रजायते ॥२२॥ विश्वासो न विधातव्यो, मनुष्येण विवेकिना । स्वकीयानामपि स्त्रीणां, विशेषतः परस्त्रियः ॥ २३ ॥ राज्यभ्रंशः परस्त्रीभ्यः, परस्त्रीभ्यो धनक्षयः । कुल्यानामपि मर्त्यानां भवेत्कुलकलंकिता ||२४|| परस्त्रीसंगमो लाके, गदितो नरकप्रदः । किं तत्र क्रियते वांछा, त्याज्याऽन्यस्त्री हि पंडितैः ॥ २५॥ कुत्राप्यकर्णितं नाथ, पानीयाद्वह्निसंभवः । मेघादंगारवृष्टिश्च कर्कटीभक्षणं वृतेः ||२६|| आदित्यात्तामसोद्भूतिरुष्णता शशिनः करात् । भूभारं किं त्यजेच्छेषो, मर्यादामंबुधिश्च किं । २७ ।। भवेयुर्ये महीनाथा —स्ते परस्त्रीपराङ्मुखाः । मर्यादां न विमुंचति, किं प्रारब्धं त्वया विभो ।। २८ ।। चक्रवाकी समीहेत, स्वं चक्रवाकमेव हि । मेघमेव तडिच्चंद्र - मेव वा चंद्रगोलकां ॥ २९ ॥ कुलीना या भवेत्कांता, सा स्वकीयं पतिविना । न वाञ्छति स्वके स्वांते, मर्त्यमन्यं कदाचन । ३० वहुधेत्युपदेशानां वाक्यानि प्राचिरे तया । तथापि विषयाणां च न स्पृहा व्यरमन्मधोः ||३१|| महतामपि मेघाना - मूषरे वर्षणं यथा । यथा दुग्धसितापान - माराधितस्य भोगिनः ||३२|| वैश्वानरे हविः क्षेप, ज्वरितस्याज्यभोजनं । खले यथोपकाराः स्यु- स्तथा तस्यापदेशका ||३३|| समाकर्ण्य तदीयानि, वचनानि महीपतिः । मनोभूमार्गणैर्विद्ध – चिंतयामास मानसे ||३४|| इयमेकाकिनी चास्ति, त्वहमध्येका कितां भजन् । त्रियामावसर श्रेड – उसमयो न मिलिष्यति ॥ ३५ ॥ विवर्णेभ्योऽपि मूर्खः स, पशुभ्योऽप्यधिक: स च । आत्मनः समयो येन, संसारे नोपलक्षितः ||३६|| समये जनितं कृत्य–मखिलं सौख्यहेतवे । यत्कृतं समये नैव तत्प्रांतेऽनुशयाय च ॥३७॥ ततो यथा तथा वेगा — दनया सममेकशः । विहाय सर्वथा व्रीडां, कामक्रीडां करोम्यहं ||३८|| विमृश्येति च भूपालो – ऽनंगपीडावशानुगः । रेमे बलात्तया सत्रा राज्ञा सा किंहि शक्नुयात् ॥ ३९ ॥ मद्भवितव्यतायोगा—द्यद्भावि भूतमेव तत् । अनेनैव समं भर्तृ – संयोगो भवतादथ ॥४०॥ विमृश्येति द्वितीयस्यां निशायां स्वयमेव सा । तेनामा रमयामास स्त्रियो हि कामविह्वलाः ॥ ४१ ॥ तृतीयायां त्रियामायां सा क्रीडद्वीडयोज्ज्ञिता । वांच्छंत्येव स्त्रियः प्राय, उच्च मुच्चे हि पुरुषं ॥ ४२ ॥ हावभावै विलासैश्र, विभ्रमै भ्रमकारिभिः । राजानं रंजयामास, कलाभिः सा निरंतरं ||४३|| विनोदैर्हास्यवार्ताभि—रार्यागाथाकथादिभिः । गीतैर्नृत्यैश्च वादित्र - वादनैस्तमरंजयत् ॥ ४४ ॥ पुरातन्य समस्ता या, अवगणय्य योषितः । तामग्रमहिषीत्वेन, भूपोऽप्यस्थापयद् गुणैः ॥ ४५ ॥
1
३८