________________
सग-७
२१५
प्रद्योतते यथा विद्यु--दल्पकालं निशास्वपि । संपतिरपि निःशेगा, तथा ज्ञेया विचक्षणैः ॥४॥ पंचेंद्रियभवा भोगाः, सदा रोगादिकारकाः । संध्यारागोपमं प्रेम, शरीरं क्षणभंगुरं ॥५॥ अल्पकालं सुखावाप्ति, बहुकालं च दुःखदं । स्वरूपं संसृतेदृष्ट्वा, ह्युद्विग्नोऽस्मि भवाद्विभो ! ॥६॥ लोकस्य व्यवहाराय, न्यस्य राज्यं सुते निजे । भविष्यति हि मे दीक्षा, भगवन् युष्मदंतिके ॥७॥ आकर्ण्य भूपतेर्वाक्यं, जगाद मुनिपुंगवः । माकार्षीः प्रतिबंध त्वं, प्रवर्तस्व यथासुखं ॥८॥ एकधोऽपि यो दीक्षां, पालयेत्स हि मोक्षगः । वैमानिकोऽथावश्यं, भवत्यत्र न संशयः ॥९॥ मुमुक्षुरपि संसारा-ध्यानध्यातपदार्थकः । जैनी दीक्षां विना मोक्षं, न कोऽपि लभते नरः ॥१०॥ निशम्येति मुनेर्वाचं, प्रणम्य तत्क्रमद्वयं । राजा जगाम धाम स्वं, संवेगरसपूरितः ॥११॥ गत्वा गेहे महाहर्षा-द्वा राज्यं च सूनवे । चारित्रं समुपादत्त, पार्थिवः स्वजनैः सह ॥१२॥ भृपदीक्षास्वरूपं च, वीक्ष्याकर्ण्य गुरोर्वचः । पूर्णों वैराग्यांगेग, श्रेजी वा कोविदः ॥१३॥ न्यस्य भारं कुटुंबस्य, द्वयोरपि तनूजयोः । कल्याणसुखसंप्राप्त्य, श्रेष्टयपि प्रावजनू मुदा ॥१४॥ इतश्च श्रेष्ठिनः पुत्रौ, नत्वा मुनीश्वरक्रमौ । गृहस्थमार्ग मप्राष्टां, दीक्षामादातुमक्षमौ ॥१५॥ चारित्रग्रहणे शक्ति-नास्ति सांप्रतमावयोः । कृपालो ! त्वं कृपां कृत्वा, गहिधर्म प्रदर्शय ॥१६॥ मुनींद्रोऽपि तयोर्वाक्य-माकर्ण्य श्रुतिगोचरे । धर्म प्रकाशयामास, गृहिणामपि सौख्यदं ॥१७॥ मिथ्यात्वं प्रथमं त्याज्यं, धार्य सम्यक्त्वमुत्तमोतदूषणानि हेयान्या-देयानि भूषणानि च ॥१८॥ यथाशक्ति व्रतान्यंगी-कर्तव्यानि विवेकतः । पालनीयान्यतीचार-वर्जितानि निरंतरं ॥१९॥ सप्तक्षेजा तथा दीन-मनुजानां समुध्धृतौ । न्यायोपार्जितवित्तानां, देयं दानं यथोचित्तं ॥२०॥ शिष्टाचारैः समं धर्म-कर्मविचारमाचरेत् । कुलशीलसमाचार-रुद्वहेतान्यगोत्रजैः ॥२१॥ १ अक्षुद्रः २ प्रकृतौ सौम्यो, मध्यस्थः ३ सौम्यलोचनः ४ । ५ सत्कथो ६ गुणरागी ७ च, सदाक्षिण्यो ८ विशेषवित् ॥२२॥ ९ सुपक्षो १० दीर्घदर्शी ११ चा-क्रूरो १२ लोकप्रियोऽशठः । १३ लज्जालुः १४ सदयो १५ १६ भीरु-वृद्धानुगो १७ विनीतकः ॥२३॥ १८ लब्धलक्षः १९ कृतज्ञश्च, २० परहितार्थकारकः।सौंदर्येण स्वरूपस्य, लोकांबकप्रमोदकः२१।२४॥ गुणैरित्येकविंशत्या, संयुतो यः पुमान् भवेत् । स द्वादशवतार्हः स्याद् , गृहवासेऽपि सद्गतिः ॥२५॥ श्रुत्वेति तौ मुनींद्रस्य, वचनं पापमोचनं । सम्यक्त्वप्रथमानि द्वा–दश व्रतानि बिभ्रतुः ॥२६॥ तौ व्रतान्युररीकृत्य, नत्वा च मुनीपक्रमौ । मन्यमानौ कृतार्थत्व-मगच्छनां स्वमंदिरं ॥२७॥