________________
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
अष्टापदस्य शैलस्य, क्षितौ ते मृतिमाप्नुवन् । भूपभीत्या मरिष्यामो, वयमप्यत्र सांप्रतं ॥७२॥ तद। जगाद भूदेवो, मा कुरुध्वं मरणोद्यमं । द्राक् प्रतिबोधयिष्यामि सगरं पुत्रदुःखितं ॥७३॥ कथयित्वेति सर्वेषां, निवार्य सहसामृतिं । अनाथं मृतकं लात्वा, नगरे प्रविवेश सः ॥४॥ आक्रंदंश्च शिरःकेशां-स्त्रोटयन् कुट्टयन्नुरः । रुदंश्च पुत्र पुत्रेति, गतः स सगरांतिके ॥७५॥ ममैक एव पुत्रोऽभूत, सोऽपि दष्टोऽहिना मृतः। त्वदीयैर्भेषजैमंत्र-जीवय त्वं चिकित्सकै ॥७६॥ श्रुत्वेति सार्वभौमेना-कारिता भिषजोऽखिलाः।आकार्य तान् अमुं पुत्र-मस्य जीवयथेत्यवक् ॥७७॥ जीवयिष्यथ नो यद्ये-तस्य यूयं च नंदनं । प्रकरिष्यामि युष्माक–मप्यस्यैव सहायितां॥७८॥ नजीवति मृतः कोऽपी-ति जानंतोऽषि वैद्यकाः।सद्योबुद्धिं समासाद्य, भूपालं प्रत्यबीभणन्।॥७९॥ यस्य गेहे मृतः कोऽपि, न स्यात्तस्य निकेतनात्।रक्षामानय नाथैनं, जीवयामो वयं यथा ॥८॥ भूपा दुबैलकर्णाः स्यु-रिति सत्यापयन्नयंतिथैवाभ्यदधभृत्यान्, रक्षामानयतालयात् ॥८१॥ भृत्यैरपि प्रभोवाक्या-द्गतं सर्वेषु समसु। सर्वेषामपि लोकानां, नाप्ता तादृक्तथापि सा ॥८२॥ मातुः पितुश्च पत्युश्च, बंधोः स्व सुनिजस्य च । प्रत्युत स्मारणं जातं, चिरदुःखस्य मृतस्य च ॥८३॥ निरीक्ष्य नगरं सर्व, समीपे चक्रवर्तिनः । जनितांजलयो मौलौ, जगुः समेत्य सेवकाः ॥८४॥ स्वामिनिकेतनं तन्न, किमप्यत्र पुरेऽखिले।यत्र कोऽपि मृतो नास्ति, वृद्धो वा बालकोऽथवा ॥८५॥ यस्य यस्य निवासे चा–स्माभिर्गतं त्वदाज्ञया।तस्य विस्मरितं दुःख-मिव स्मारितमंजसा ॥८६॥ ततः क्वापि पुरे ग्रामे, नगरे पत्तनेऽथवा।अमृत्युसानो रक्षा, न मिलिष्यति सर्वथा ॥८७॥ विना वैद्योदितां रक्षा-मुपचारैः परैरपि।यदि जीवेदसौ तर्हि, जीवय त्वमिमं विभो ॥८८॥ इत्युक्ते सेवकर्भप-स्तं भूदेवमभाषत । यो जातो म्रियते चेत्स, तर्हि कुर्मों वयं च किं ॥८९॥ संसारस्थितिरेषास्ति, जन्मिनां मृतिरेव च । ततः शोकं विमुंच त्वं, पुत्रस्य मृतिसंस्मृतेः ॥९०॥ चक्रवर्तिवचः श्रुत्वा, दुःखी भूय द्विजोजगौ।यःसुखी दुःखिनो दुःख–वार्ता वेत्ति न स प्रभो॥११॥ संति षष्टिसहस्रास्ते, पुत्रा ये च धुरंधराः । त्वया किं कालतस्तेऽपि, शक्यंते रक्षितुं न हि।।९२॥ भूपः प्राह महाभाग, नास्ति शक्तश्च कोऽपि हि । यः कालधर्मतो रक्षे–त्कमपि जन्मिनं भुवि।।९३॥ किं मत्पुत्रा यदा देव-कुमाराणामपीदृशः । कालधर्मो भवेत्तर्हि, शक्यते केन वारितुं।।९४॥ वाडवोऽभ्यदधत्स्वामिन् , यद्येवं तर्हि ते सुताः । सामुदयिककर्माणः, सर्वेऽपि युगपन्मृताः॥९५॥ आकस्मिकमसंभाव्यं, श्रुत्वैवं च द्विजोदितं । कथं मे ते मृता बहि, पृच्छेद्यावदिति प्रभुः ॥९६॥ संकेतात्तावदानंद-शब्दं विदधतः खरं । मंत्र्यादयः समायाता, रोदयंतोऽपरानपि ॥९७॥ राजलोके बभूवुर्याः, स्त्रियो येऽपि च पुरुषाः । सर्वेऽपि रुरुदुस्तत्रा-स्तोकशोकाकुला भृशं॥९८॥ भूपालोऽपि तदा तत्र, वज्रघातादिव स्वयं । मूर्छया सहसा मयां, पपातातीवदुःखभाक् ॥९९॥