________________
स
૧૮૧
શિલા ઉપર આ બાળકને મૂકી દઉં. ક્ષુધાતુર બનેલે આહાર પાણી વિના સ્વયં પિતે જ મરી જશે. ક્રોધાંધ બનેલે ધૂમકેતુ દેવ બાળકને શિલા ઉપર મૂકીને મેં સારું કર્યું. તેની સાથે મારું વેર લેવાયું, એ બહુ સારું થયું. એમ વિચારી ત્યાંથી પિતાના સ્થાને ચાલ્યો ગયો.
ચરમશરીરી (એ જ ભવમાં મોક્ષ જનારો) હોવાથી, નિરૂપક્રમી આયુષ્યવાળો બાળક પત્થરની શિલા ઉપર પાંદડાના ઢગલામાં પછાડવા છતાં પણ મરણ પામે નહીં.
अग्निज्वालपुरात्प्रातः, स्वकीयनगरं प्रति । हृद्यविद्याधराधीश-श्वचाल कालसंवरः ॥८९॥ मार्गे विमानमारूढः, साधु कनकमालया । कुर्वन् वार्ता विनोदेन, याति प्रमोदमेदुरः ॥९०॥ तस्य प्रचलतस्तूर्ण, विमानं यावदद्भुतं । बालकस्योपरि प्रौढं, समेतमस्खलद् द्रुतं ॥ ९१ ॥ तावत्तत्स्खलयामास. वायुवेगमपि स्फुटं । स्खलितं च विमृश्यादो-ऽचिंतयत्कालसंवरः।।९२॥ अधस्ताज्जगदीशस्य, किं प्रासादः प्रवर्तते । कायोत्सर्गेण वा कश्चित् , संस्थितः किं मुनीश्वरः ॥१३॥ अथवा पुण्यवान् कश्चि-दधश्वरमविग्रहः । वर्तते पुरुषः स्त्री वा, शिशुदिभ्रकष्टभाक्॥९४॥ अत एव विमाने मे, स्खलनां समजायत।अन्यथा मद्विमानं हि, स्खल्यते नापि केनचित् ।। ९५॥ विमानादहमुत्तीर्य, प्रपश्यामि ततो द्रुत अस्मिन् शैले स्वरूपं किं, समस्ति द्वापरच्छिदं ॥ ९६ ॥ ज्ञात्वेति द्वापरोच्छित्त्यै, समुत्तीय विमानतः । यावत्समंततः पश्येत्, क्षितौ पतितरत्नवत् ।। ९७ ॥ आदराद्वीक्षमाणेन, निरीक्ष्य तेन बालकं । पर्वतप्राप्तरत्नेन, पुंसेव मुमुदे हृदि ।। ९८ ॥ महर्यमणिसंघाता-द्रत्नं लब्ध्वा परीक्षकः।यथा समीक्षतेऽभीक्ष्णं, तं बालं स तथैक्षत ।। ९९ । भ्रमरीकालिमोपेत-स्निग्ध सूक्ष्मकचावलि–भाजदुष्णीकसंयुक्तं, विभ्राजतेऽस्य मस्तकं ।। १०० अष्टमीचंद्रमस्तुल्यं, भालमेतस्य वर्तते । भ्रुवौ च दपिकंदर्प-वरकोदंडसन्निभे ॥१॥ दोलौपम्यं शिशोरस्य, दधात्ति श्रवणद्वयं । अतिविस्मेर राजीव–पवित्रं नेत्रयामलं ॥२॥ पार्श्वयोरुभयोरस्य, कपोलौ दर्पणाविव । विभ्राजेते विभूषामि-त्किारप्रविधायिनौ ॥ ३० तिलप्रसूनसंकाशा. नासौष्टौ हेमकंदलौ । कुंदवंदेंदुपाथोधि-कल्लोलधबला ग्दाः ।। ४ ॥ कंबुकंठो घटौपम्यं, धत्ते भुजशिरोनुगः । मृणालीयति दोदंडः, पत्रीयति करांगुलीः ॥५॥ कपाटपाटवं बिभ्र-द्वक्षःस्थलं विराजते । आवर्त इव गंभीरो, नाभिरेतस्य दृश्यते ॥ ६॥ हस्तिहस्तोपमे जंघे, निगूढे जानुनी पुनः । कूर्मपृष्टसमावंध्री, तले रक्तोत्पले इव ॥७॥ दर्श दर्श शिशोरस्य, रूपं लक्षणलक्षितं । स्वमानसे चमत्कार–मधरत्कालसंवरः ॥ ८ ॥ पार्व णेदुरिर्वतस्य वदनं तु प्रशस्यते । स्वकीयकायतेजोभिः, पूषेव द्योततेऽभितः ।। ९॥ तत्प्रद्युम्नकुमारोऽय-मित्याख्यास्य प्रभूयतां परितो द्योतमानस्य, स्वद्योते श्च दिशः समाः ।।१॥