________________
सम्यक्त्वमाहात्म्ये अमरदत्तभार्याकथानकम्
४५९
अथो पितृभ्याममरो, बभणे किमु मुग्ध रे ! । त्वमप्यमुष्या मायिन्या, गिरा भ्रान्तो वृथैव हि ॥१७३॥ ततोऽसौ दृढसम्यक्त्वो, वचनैर्जिनभाषितैः । बोधं ददद् दृढं पित्रोद्वेषपोषमजीज[न]त् ॥१७४।। ततस्तौ सततं वध्वाश्छिद्रान्वेषणतत्परौ । अलीकानूचतुर्दोषानमरस्य पुरः सदा ॥१७५॥ स तु स्वभावं प्रेयस्या, निष्कलङ्क विदन् हृदि । न प्रत्ययमुपेयाय, पित्रोर्वचसि धीरधीः ॥१७६॥ वहन्तावथ तौ नित्यं, प्रद्वेषमधिकाधिकम् । वरवध्वोधर्मविघ्नं, चक्राते वक्रतान्वितौ ॥१७७॥ तथापि च तयोश्चेतोवृत्तिरार्हतधर्मतः । काञ्चनाचलचूलावत्, किञ्चनाप्यचलन्न हि ॥१७८।। अन्येधुर्विमलयशा, गेहस्योर्वतले निजे । वासौकस्यादिमे यामे, रात्रौ सुष्वाप निद्रया ॥१७९॥ तदा च श्वशुरौ तस्या, दुष्टौ मन्त्रितपूर्विणौ । ज्ञात्वाऽमरं बहिर्देशात्, प्रविशन्तं निजौकसि ॥१८०।। नरं कञ्चिद्धनैः प्राज्यैः, प्रलोभ्योद्धर्वं च सद्मनः । प्रस्थाप्य तारं पूत्कारमकार्टी मत्सरो हहा ॥१८१॥ युग्मम् ॥ सम्भ्रान्तोऽमरदत्तोऽपि, धावित्वा शुद्धधीनिधिः । सौधोद्धतलमारोहत्तद्वृत्तान्तदिदृक्षया ॥१८२॥