________________
४४९
दृढसम्यक्त्वे सुलक्षणा-शुद्धभट्टयोः कथा इयन्मात्रश्च महिमा, किं सम्यक्त्वस्य चित्रकृत् । पोरीन्द्रस्य कुरङ्गौघ, प्रति ध्वंसनशक्तिवत् ॥७०।। महिमानं सम्यक्त्वस्य, सर्वं विद्याद्धोऽपि कः ? । इयज्जलं जलनिधाविति को निर्णयेन्ननु ? ॥७१॥ त्वया वै तिर्यग्-नरकगत्योर्दत्तो जलाञ्जलिः । नृ-देवगत्योः सिद्धेश्च, स्वाधीनस्ते सुखोच्चयः ॥७२॥ इति स्तुत्वा शुद्धभट्ट, तिरोधत्त सुरी क्षणात् । अदृष्टपूर्वं तद्वीक्ष्य, व्यस्मयन्त च वाडवाः ॥७३॥ शुद्धभट्टोऽप्युपादाय, पुत्रं स्मितमुखाम्बुजः । सूतैः स्तुतः प्रवचनोन्नतिं तन्वन् गृहं गतः ॥७४॥ सुलक्षणाऽपि तद्वृत्तेक्षणादक्षतहर्षभाक् । एकान्ते दयितं प्रोचे, विवेकविमलं वचः ॥७५।। 'यत् त्वया तनयोऽक्षेपि, वह्नौ तच्चारु नो कृतम् । सर्वस्य सर्वदा किं स्यात्, सन्निधौ शासनाऽमरी ॥७६।। सम्यग्दृष्टिः सुरी चेन्नाऽभविष्यत् सन्निधौ तदा । अधक्ष्यत सुतस्तहि, तवाऽयं जीवितेश्वर ! ॥७७।। आयातं जिनधर्मस्याऽप्रामाण्यमियता च किम् । ते तु पापाः प्रलपेयुरेवाप्रामाण्यमुधुराः' ॥७८॥ इत्याद्याभाष्य सम्यक्त्वस्थेम्ने कान्तं सुलक्षणा । समानिनाय नः पार्वे, संत्रा चित्रीयितैद्विजैः ॥७९।। १. सिंहस्य । २. मागधैः । ३. निरङ्कुशाः । ४. सह ।