SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ धुरसंहारः] स्वपक्ष प्रेमप्रभावत्तिपरिकलिता भवस्थितिः [ ३१ __(प्रे०) "मंदमह" इत्यादि, 'प्रत्र' अस्मिन् प्रस्तुते भवस्थिति संज्ञके प्रकरणे यत्तदोनित्यसम्बन्धाद् यच्छन्द प्राक्षिप्यते यत्किमपि 'मन्दमत्यनुपयोगाविहेतुना'मन्दा जाड्या चासौमति:-बुद्धिर्मन्द. मतिः अप्रगल्भशेमुषी न उपयोग:-चित्तैकाग्रता अनुपयोगः= असावधानता,मन्दमतिश्चा-ऽनुपयोगश्च मन्दमत्यनुपयोगौ तौ प्रादौ येषाम्, ते मन्दमत्यनुपयोगादयः, अत्रा-ऽऽदिपदेन छामस्थ्य-दृष्टि. दोषादयो ज्ञेयाः, त एव हेतुः, मन्दमत्यनुपयोगादिहेतुस्तेन मन्दमत्य. नुपयोगादिहेतुना-ऽऽगमविरुद्ध शास्त्रबाह्य स्यात्तद् मयि ममो. परि कृपां-प्रसादं 'कृत्वा' विधाय श्रुतनिधया श्रुतागमशालिन: शोधयन्तु-प्रशुद्धपदनिराकरणेन शुद्धपदानयनेन शुद्धि कर्वन्तु ।१७।। प्रेमप्रभाष्यवृत्त्या, विराजिता प्रेमसूरिगणे । मुनिवीरशेखरेण, स्वोपज्ञभवस्थितिश्चैषा ॥१॥ कुशलं तया यदाप्तं, तेन कुशलमस्तु विश्वविश्वस्य । यत्किमपीह क्षुण्णं, स्यात्तच्छोध्यं बुधैविधाय कृपाम् ॥२॥ ॥ति प्रेमप्रमावृत्तिः समाप्ता। इति स्वोपज्ञप्रेमप्रभावृत्तिपरिकलिता मुनिश्रीवीरशेखरविजयसूत्रिता भवस्थितिः समाप्ता
SR No.022675
Book TitleBhavsthiti Part 01
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy