SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ संमूर्छिम मनुष्य : आगमिक और पारंपरिक सत्य १४१४) इति । श्मशानसामन्तं शबस्थानसमीपम् ।" घासीलालजी महाराज की व्याख्या प्रस्तुत प्राचीन अभयदेवसूरि महाराज की व्याख्या का ही अनुसरण करती है। अभयदेवसूरि महाराज ने अपनी व्याख्या में आवश्यकनियुक्ति के जो श्लोक उद्धृत किए हैं उन्हीं श्लोकों का घासीलालजी महाराज ने भी उद्धरण कर के नियुक्ति आदि को भी प्रमाणभूत प्रतिष्ठित की है। उनकी वृत्ति भी देख लें : “औदारिकम्, उदारं = मनुष्यपञ्चेन्द्रियतिर्यक्शरीरं, तस्येदमौदारिकम् = मनुष्य-पञ्चेन्द्रियतिर्यक्शरीरमाश्रित्य जातम् अस्वाध्यायिकं दशविधं प्रज्ञप्तम् । तद्यथा - 'अट्ठि-मंसं' इत्यादि । अस्थि-मांसशोणितानि प्रतीतानि । तत्र पञ्चेन्द्रियतिरश्चाम् अस्थि-मांस-शोणितानि द्रव्यतोऽस्वाध्या-यिकानि । उपलक्षणत्वाच्चापि गृह्यते । ततश्च चर्मापि द्रव्यतोऽस्वाध्यायिकं भवति । उक्तं च - 'सोणिय मंसं चम्मं अढि वि य होति चत्तारि' (आवश्यकनियुक्ति गा. १३६५) इति । क्षेत्रतो मनुष्यकलेवरे शतहस्ताभ्यन्तरे तिर्यक्शरीरे षष्टिहस्ताभ्यन्तरे । कालतो यावत्कालं दृश्यते तावत् । भावतो मनसाऽप्यपठनमिति । मनुष्याणाम् अस्थि-चर्म-मांस-शोणितानि द्रव्यतोऽस्वाध्यायिकानि भवन्ति । क्षेत्रतः अस्थि हस्तशताभ्यन्तरे पतितमस्वाध्यायिकं भवति । अथ तत्स्थानमग्निकायेन ध्मातं पानीयप्रवाहेण वा धौतं तदा अस्वाध्यायो न भवति । चर्म-मांस-शोणितानि तु हस्तशताभ्यन्तरे स्थितानि यदि भवन्ति तदा स्वाध्यायो न कल्पते । कालतो यावत्कालं तिष्ठन्ति तावदस्वाध्यायः । यदि कस्याश्चित् सप्तगृहाभ्यन्तरे प्रसूताया दारको जातस्तदा सप्तदिनान्यस्वाध्यायः, अष्टमे दिवसे स्वाध्यायः कर्तव्यः । अथ दारिका जाता तर्हि तस्यां जातायामष्टौ दिनान्यस्वाध्यायः, नवमे दिने स्वाध्यायः कल्पते इति भेदत्रयम्। ___ अशुचिसामन्तम् = अशुचीनाम् = अपवित्राणाम् उच्चारादीनां सामन्तं = सामीप्यम् अस्वाथ्यादिकं भवति । उच्चारादिषु प्राणालोक 30
SR No.022666
Book TitleSamurchhim Manushuya Agamik Aur Paramparik Satya
Original Sutra AuthorN/A
AuthorYashovijaysuri, Jaysundarsuri
PublisherDivyadarshan Trust
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy