________________
काव्यमाला।
स्पर्धया वर्धयित्वामुं प्रमदोद्भासुराः सुराः । सद्योऽपि दिवमुत्पेतुः पातोत्पातितडित्त्वराः ॥ १९० ॥ माद्री चाहूय नासत्यौ पृथाप्रथितमन्त्रतः । नकुलं सहदेवं च सुषुवे विश्रुतौ सुतौ ॥ १९१ ॥ द्विषद्यमौ यमौ सत्त्वोपेतावेतावतियुती । भविष्यतः सुतौ सत्यं तदाभूदिति दिव्यगीः ॥ १९२ ॥ स्फुरिता मूर्तिमन्तोऽमी खेलन्तो गन्धमादने । पञ्चाग्नय इव व्यक्तास्तपसेव तपखिनाम् ॥ १९३ ॥ अथैकदा मदाविष्टो वसन्ते पाण्डुपार्थिवः । उपांशु कोमयन्माद्री प्राप शापफलं मुनेः ॥ १९४ ।। प्रियमन्वैम्यहं त्वं तु पञ्चैतान्पालयात्मजान् । इत्युक्तिकलितां कुन्ती ततो माद्रीत्यभाषत ॥ १९५ ॥ अतृप्त इव कामानां मन्मुखे निहितेक्षणः । प्रियः प्राप्तो दिवं तन्मां विना तस्य कुतः सुखम् ॥ १९६ ॥ प्राणेशमनुयास्यामि तदहं विरहासहा । पालनीयाविमौ किंतु सुतौ स्वसुतवत्त्वया ॥ १९७ ॥ इत्युक्त्वा साविशन्माद्री परलोकस्पृशि प्रिये । वह्नि जगत्रयीनेत्रे रवाविव जवाछविः ॥ १९८ ।। ते' ततः शतशृङ्गाद्रितापसास्त्वापदां पदम् । त्रयोदशेऽह्नि भीष्माग्रे निन्युः कुन्तीं सुतान्विताम् ॥ १९९ ।। विज्ञातपाण्डुवृत्तान्तः प्रवृत्तान्तः शुचातुरः । भीष्मो जनैः सहाक्रन्दशब्दाद्वैतमवर्तयत् ॥ २० ॥ दृम्भिरउच्छलादादौ चक्षुष्याय जलं ददौ । तस्मै स्पशैंकयोग्याय कुटुम्बस्य करैस्ततः ॥ २०१ ।। प्रथिते प्रेतकार्येऽथ तस्य सत्यवती तदा ।
सवेधूका तपो भेजे व्यासोक्तेर्दुःखमागता ॥ २०२ ॥ १. 'शतशृङ्गतपोराशेस्तापसास्तापशालिनीम्' क. २. 'च' क-ख. ३. 'व्यासोक्ते दुःखमागमे ग.