________________
काव्यमाला।
रत्नैः कुम्भिशिरोयुक्तमुक्तैरुपरि दोष्मताम् । पुष्पवृष्टिरभूत्खगोत्क्षिप्तसिंहोदरच्युतैः ॥ १६५ ॥ बूत्कारैश्च मृगेन्द्राणां हुंकारैश्च भुजाभृताम् । शङ्के भयं भयस्यापि तत्र प्रविशतोऽभवत् ॥ १६६ ॥ वीरभारनम मीभुग्नशेषग्रहाकुलः । तदा पाताललोकोऽपि धनुर्धर इवाबभौ ॥ १६७ ॥ कुम्भिकुम्भमणीनुप्त्वा सिंहैः कृषिरकारि या । असिलावैर्भटा भूरि जगृहुस्तद्यशःफलम् ॥ १६८ ॥ कम्पितः शङ्कया शङ्के सोऽपि पातालसूकरः । तत्र व्यतिकरे धात्री चकम्पे कथमन्यथा ॥ १६९ ॥ मृगेन्द्रघातिनां मूर्ध्नि निपेतुः पुष्पवृष्टयः । त्रस्यन्मृगधृतौ खिद्यमानेन्दुस्वेदबिन्दुवत् ॥ १७० ॥ इति निर्जित्य गर्नन्तो निर्ययुस्ते भुजाभृतः । समदा मेदिनीनाथं मोदयन्तो मिथः स्तवैः ॥ १७१ ॥ मृगो जीवन्नपि मृगः सिंहः सिंहो मृतोऽपि सन् । नासन्नोऽपि स तस्य स्यात्परासोविरते रणे ॥ १७२ ॥ इति कौतुककेलीभिर्वितीर्णव्यसनो नृपः । नाभवत्तदिनं यत्र न पापर्धिविधिं व्यधात् ॥ १७३ ॥ अन्यदा किंदमो नाम वने स्त्री रमयन्मुनिः । हीवशान्मृगरूपस्थः पाण्डुना पीडितः शरैः ॥ १७४. ॥ मृत्युस्ते स्त्रीरसादेवं दत्तेन मुनिनामुना। दृष्टपापेन शापेन क्ष्मापस्तापमवाप सः ॥ १७५ ॥ प्रियाद्वयान्वितो भीष्मे भारं न्यस्य ततो नृपः। अनुशायी वनं प्राप हिमाद्रेर्गन्धमादनम् ॥ १७६ ॥ तत्र संतोषपीपूषसिक्तस्वान्तस्तपश्चरन् ।
सोऽस्थान्महर्षिसाहाय्यैः शतशृङ्गाह्वये गिरौ ॥ १७७ ॥ १. 'भुक्ति' ख. २. 'भूमि' क-ग. ३. 'शतशृङ्गमुनीन्द्रस्य साहाय्यात्तत्र तस्थिवान्' क.