SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ४ सर्गः ] बालभारतम् । सचिवैः सत्यवत्या च बोधितोऽथ धुनीसुतः । प्रतिज्ञाभङ्गभीर्भेजे न भुवं न च सुभ्रुवम् ॥ १२७ ॥ बन्धूनां वा द्विजानां वा वीर्यादुद्धियते कुलम् । इति श्रुतिगिरा भीष्मः सत्यवत्या न्यवेदयत् ॥ १२८ ॥ द्विजं निजसुतं व्यासं तत्र निश्चित्य कर्मणि । सती यदा हृदा दध्यौ स तदैवाभवत्पुरः ॥ १२९ ॥ स मातुरातुरैर्वाक्यैरपि भीष्मस्य भाषितैः । शीलमाधुर्यधुर्योऽपि तत्कर्म प्रतिपन्नवान् ॥ १३० ॥ राज्ञी विचित्रवीर्यस्य भेजिवानम्बिकामथ | एष दुवैषभाक्शूक संकोचितविलोचनाम् ॥ १३१ ॥ अन्धः सुतोऽस्या भावीति जल्पन्मातृगिरा पुनः । व्यासोऽम्बालां द्वितीयां स्त्रीं शूकपाण्डुमथाभजत् ॥ १३२ ॥ अस्याः पाण्डुः सुतो भावीत्याख्यन्मातुः पुरो मुनिः । ततोऽन्धं धृतराष्ट्राख्यं सुषुवे सुतमम्बिका ॥ १३३ ॥ अम्बालाप्यङ्गजं पाण्डुपिण्डं पाण्डुमजीजनत् । अम्बिकाभावभोगार्थं पुनर्मात्रार्थितो मुनिः ॥ १३४ ॥ सोऽम्बिकाशूक संदिष्टां हृष्टां शूद्रीमथाभ्यगात् । साप्यसूतं सुतं धर्मविदुरं विदुराभिधम् ॥ १३५ ॥ अणीमाण्डव्यशापेन धर्मोऽयं शूद्रतां श्रितः । विदुरो धर्मविद्धीमान्भावीत्युक्त्वागमन्मुनिः ॥ १३६ ॥ धृतराष्ट्रो धियां धाम नागायुतबलोऽजनि । समस्तशास्त्रसंदोहच्छिदुरो विदुरोऽप्यभूत् ॥ १३७ ॥ पुनद्वेषियशोम्भोधिशोषकुम्भोद्भवोऽभवत् । ३९ इलाविलासिनीजानिः पाण्डुरुद्दण्डचण्डिमा ॥ १३८ ॥ यशः सुधाकरो यस्य वचसां कस्य गोरे । ब्रह्मणोऽपि निशा येन नूनं ज्योत्स्नी भविष्यति ॥ १३९ ॥ १. 'बिदुरः ' ग. २. ' गोचरः' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy