________________
४७३
आस्तीकपर्व-१सर्गः] बालभारतम् ।
ततस्त्रिजगतीहोमक्षमानक्षीणतेजसः । द्विनानामन्य धात्रीशः सर्पसत्रमसूत्रयत् ॥ ६ ॥ तदाहिकुलदाहाय भूपकोप इवाङ्गवान् । प्राविशत्क्रतुकुण्डान्तः प्रज्वलज्ज्वलनच्छलः ॥६६॥ निर्दम्भमन्त्रसंरम्भमासुरैरथ भूसुरैः। कृष्टा विश्वधतिव्यक्तशक्तयोऽप्युरगा न के ॥ ६७ ॥ निसर्गभूषणं भर्ग भगवन्भवतो वयम् । तदस्माद्भालदृग्वासोपरोध्यात्पाहि पावकात् ॥ ६८ ॥ आकल्पमाप्य तल्पत्वमस्मदीशेन सेव्यसे । अस्मानस्सान्न किं पासि क्रतुतः क्रतुपूरुष ॥ ६९॥ त्वत्सर्गस्य तृतीयोऽशः पश्यतस्ते विलीयते । वेदज्ञैः क्लिश्यमानान्नः पासि वेदकवे न किम् ॥ ७० ॥ कदा रज्जुक्रियाकारि नास्माभिः स्यन्दने तव । तन्नः किं त्रायसे नैभ्यस्त्रयीविन्यस्त्रयीतनो ॥ ७१ ॥ अस्मन्मुक्ता मही मतासाद्रिस्तन्मेरुमन्दिरा । का वो गतिर्वयं पाल्यास्तत्संमील्याग्निमाननम् ॥ ७२ ॥ इत्यारटन्तस्तैः सर्वैरपि रक्षितुमक्षमैः । सार्ने निरीक्ष्यमाणास्ते दीप्तेऽग्नौ भोगिनोऽपतन् ॥ ७३ ॥ स्वमित्रमारुतभुजो भुञ्जानो भुजगबजान् । स्फुरत्फणामणिस्वानः सोऽग्निरद्वाहसीदिव ॥ ७४ ॥ अनलादुच्छलन्तस्ते श्यामाङ्गा मणिमौलयः । वूमेषु सस्फुलिङ्गेषु नोपालक्ष्यन्त पन्नगाः ॥ ७५ ॥ दग्धा मखाग्निकीलाभिरुद्भूतनवमूर्तयः । सद्योऽपि द्यामगुर्नागास्ते धूमोत्कलिकाछलात् ॥ ७६ ॥ दह्यमानकुलालोकहृदयस्फुटनव्यसोः । निर्ममे मृतकर्मैव कस्यचिद्भोगिनोऽग्निना ॥ ७७ ॥