________________
१आदिपर्व-४सर्गः] बालभारतम् ।
चतुर्थः सर्गः। पाराशरमकूपारमिव पुरूपिणं स्तुमः । येनोद्गीर्णाः सुधासिक्तमुक्तावद्भारतोक्तयः ॥ १ ॥ इक्ष्वाकुकुलकोटीरः पुरा भूपो महाभिषः । पुण्यं निर्माय निर्माय निर्मायः स्वर्गितां गतः ॥ २॥ धुसद्भिः सममन्येयुः प्राप्तः पद्मभुवः सभाम् । त्रिमार्गामागतां तत्र मरुतापहृताम्बराम् ॥ ३ ॥ साकाझं वीक्षमाणो न्यङ्मुखेष्वनिमिषेष्वपि । ब्रह्मशापादेवाप्यायमपायं च्यवनं दिवः ॥ ४ ॥ अहं प्रतीपभूपस्य भूयासं तनुभूरिति । चिन्तयन्स च्युतः स्वर्गात्सुमदागर्भमाविशत् ॥५॥ (विशेषकम्) सोऽयं महाप्रभावोऽभूप्रतीपपृथिवीपतेः । शशिवंशसरोहंसः शंतनुर्नाम नन्दनः ॥ ६ ॥ प्रतीपे शान्ततारुण्ये श्रितारण्ये तपःस्पृशि । तनुतां शंतनुः क्षमापः शत्रुसंतानमानयत् ॥ ७ ॥ विना नाशेन जीवन्तः पुरतो यस्य पत्रिणाम् । अच्छुटन्नोत्तमर्णानामधमर्णा इव द्विषः ॥ ८॥ यस्याद्भुतप्रभावेन पाणिस्पर्शेन यौवनम् । जीर्णास्तूर्णमयन्ति स्म मधुनेव महीरुहाः ॥ ९ अष्टौ वसिष्ठकान्तारं कान्तारङ्गपराः पुरा । रन्तुं मेरुभुवि स्मेरवसवो वसवो ययुः ॥ १० ॥ तत्रावलोक्य गां स्पष्टमष्टमस्य वसोः प्रिया । माह माहात्म्यमेतस्यास्तथ्यं मे नाथ कथ्यताम् ॥ ११ ॥ गिरा मधुकिरावोचदथ द्यौरेष्टमो वसुः ।
वासिष्ठी नन्दिनी विश्वानन्दिनी गौरि गौरीयम् ॥ १२ ॥ १. 'अवापायं' क. २. 'दिवः' अस्मादनन्तरं ख-पुस्तके 'युग्मम्' इत्यधिकमस्ति. ३. 'सुमुदा' ग. ४. 'धुरष्टमो' ग.