________________
४९८
काव्यमाला । तेषां तन्मुशलक्षोदकणबीजगणोद्भवैः । तृणकाशैर्वृते स्थाने धीर्योडुमुदभून्मिथः ॥ १३ ॥ त्वं रे सौप्तिकसुप्तघ्नस्त्वं रे प्रायस्थवीरहा । इत्थं मिथः कथा जज्ञे शैनेयकृतवर्मणोः ॥ १४ ॥ इत्युक्तिपारे प्रबलैबेलैः पक्षद्वयस्थितैः । खेच्छासमरमारेभे यदूनामन्वयस्तृणैः ॥ १५ ॥ क्षिप्तं तृणमपि क्षिप्रमभवन्मुशलाकृति । मांसास्थिरक्तपङ्कत्वमेव निन्ये बलद्वयीम् ॥ १६ ॥ प्रद्युम्नशाम्बशैनेयकृतवर्ममुखान्भटान् । खेलतः क्षीयमाणांश्च हरिरैक्षत तुल्यदृक् ॥ १७ ॥ अहो बभूव भूस्तेषां या पूर्व रतिनृत्यभूः । सैवाभूद्भुतभुग्वर्गनिरर्गलविलासभूः ॥ १८ ॥ जज्ञे यदुकुलं द्रुह्यद्वीरं मुह्यद्वधूजनम् । निशि नश्यदलिम्लायत्पद्मिनीकमिवोदकम् ॥ १९ ॥ अथेदमैन्द्रये विष्णुराख्यातुं प्रेष्य दारुकम् । वज्रमादिश्य दस्युभ्यो योषितः परिरक्षितुम् ॥ २० ॥ स्वयं हलधरालोकसमुत्सुकमना ययौ । द्वारकां नारिकावृन्दकन्दमन्दार्णवध्वनिम् ॥ २१ ॥ (युग्मम्) ततो जनकमामन्य कामपालं जगाम सः । तदा तदास्यान्निर्यातः श्वेताहिः पश्यतो हरेः ॥ २२॥ अहिः सहस्रशीर्षोऽयं वलक्षो जलधिं प्रति । मैनाकदर्शनोत्कण्ठी हिमालय इवाचलत् ॥ २३ ॥ स वासुकिमुखैः सधैंः समं सन्मुखमागतैः । विवेश वारिधौ धर्तु धरां वीरोज्झितामिव ॥ २४ ॥ इत्यनन्तपदं प्राप्ते बले वरुणपूजिते । प्रविश्य विपिनं योगी सुष्वाप सुखितो हरिः ॥ २५॥