________________
मारतम् ।
४५६
१९आश्रमवासपर्व-१सर्गः] बालभारतम् ।
इति वागमृतं पीत्वा तद्गारत्वमागताम् । गिरं दधार गान्धारधरांधवसुतापतिः ॥ ३७ ॥ तैस्तैर्वितरणाभोगैः संभोगैरपि निर्भरैः । अप्रीण्यन्त सुपात्राणि गात्राणि च मया चिरम् ॥ ३८ ॥ चतुभिरिन्द्रियैदृष्ट्या संविभज्य गृहीतया । मम तत्त्वार्थपर्यन्तं स्पर्शाचैर्दर्शितं जगत् ॥ ३९ ॥ दूत्याभवत्प्रसत्त्यैव विरक्तीकृत्य संपदि । आनीतोऽहमिदं सिद्धिसंकेतस्थानकं वनम् ॥ ४० ॥ तत्कि मे बाधतां किंतु कान्तिदृष्यैव गृह्यते । तददृष्टं कुलभुवां चाकचिक्यं दुनोति माम् ॥ ४१ ॥ इत्यस्मै वादिने दिव्यां दृशं द्वैपायनो ददौ । . आजन्मदौःस्थदूंनाय चिन्तामणिमिवेश्वरः ॥ ४२ ॥ सोऽथ व्यासाज्ञयापश्यद्गङ्गाम्भसि भृशप्रभान् । तान्दुर्योधनसौभद्रमुख्यान्पक्षद्वयीभटान् ॥ ४३ ॥ न लिप्तो रागदोषेण तान्पश्यन्नप्यसौ सुधीः । आत्मेश्वराणां यत्प्रीतिपैदं मुक्तिपदं हि तत् ॥ ४४ ॥ किं ध्यानविनकारिण्या दृष्टद्रष्टव्यया दृशा । इत्यभ्यर्थ्य मुनि धीमान्पुन(नेत्रतां गतः ॥ ४५ ॥ अथ व्यासाज्ञया वध्वो मुक्तमानवविग्रहाः । तैस्तैर्विमानिभिः साकं नाकं जग्मुर्निजप्रियैः ॥ ४६॥ अथ मासमिह स्थित्वा नृपतिः पितुराज्ञया । गतोऽरण्यात्पुरं रामः पुरारण्यं पुरादिव ॥ ४७ ॥ धर्माब्धेस्तरणं दोया शिक्ष्यमाणामुना मही । डिण्डीरपाण्डुरैरस्य मण्डिता कीर्तिमण्डलैः ॥ ४८ ॥ यशोधिदैवतमिव मापतेरस्य संसदि ।
कदाचिदाययौ खैरी नारदः पारदद्युतिः ॥ ४९ ॥ १. 'धर' ख. २. 'इत्यस्य वादिनो' ख. ३. 'दूराय' क; 'दूनस्य' ख. ४. 'प्रदं क. ५. 'धर्माब्धौ' ख-ग. ६. 'शिष्यमाणा' ख-ग.