SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-३सर्गः] बालभारतम् । गुरुरोदसीवनचरिष्णुयद्यशो व्यपदेशकेसरिकिशोरकेलिभिः । किमिव ब्रुवे विधुमृगो यदत्रसद्यदलक्ष्य एव सुरदन्तिनो मदः ॥ ११३ ॥ उदयोग्रपातमृदुदण्डताडनासुभगैव यस्य परिणामपावनी । कृतदुर्नयेऽजनि जने जनेशितुः पितुरङ्गजन्मनि यथा मुधा क्रुधा ॥११४॥ प्रभविष्यदस्य भुवि दुःसहं महः प्रविषोढुमभ्यसनतत्पराविव । अविशत्खरांशुमसुरारिरादितस्त्रिपुरारिरादित हुताशनं दृशा ॥ ११५ ॥ अथ तत्र पल्लवयति धुकामिनीकुचयोर्विलासरसकुम्भयोः करौ । अभवद्विभिन्नरिपुवैभवो विभुर्भुवनस्य भीम इति भीमविक्रमः ॥ ११६ ॥ प्रियया तिरोहिततमोविकारया रुचिमान्रराज सुकुमारिकाख्यया । घनतारकाञ्चनमनोज्ञयेव यः स्फुटलक्षणः क्षणदयेव चन्द्रमाः ॥ ११७ ॥ असिदण्डविस्फुरितरोषपौरुषद्वयपेषयन्त्रवशतो द्विषद्यशः । कणशश्चकार युधि यः पराहतद्विपकुम्भमुक्तनवमौक्तिकच्छलात् ॥ ११८॥ द्रुहिणोऽपि भालफलके तनूभृतामपि पूर्वजन्मसुकृतैरुपार्जिताम् । अलिखद्यदीयपदपद्मसेवया यदि राज्यलब्धिलिपिमन्यथा भयात् ॥ ११९ ॥ युधि जीवितव्यपवनं विरोधिनां नवकीर्तिदुग्धमपि पातुमुद्यतः । शमयन्प्रतापगृहरत्नमग्रतो भुजगो यदीयतरवारिराबभौ ॥ १२० ॥ अवलोक्य यं विधिवशाद्धनुर्धरं स्वपनेषु नैदरसनिर्भरो रिपुः । सहसोत्थितः सदनभित्तिचित्रितस्मरवीक्षणां न कुरुते स्म किं निया॥१२१॥ श्रियमत्यजच्चलतरां नयेन यां परमन्दिरे सुतमसूत सा यशः । इति यः शृणोति नहि तस्य संकथामपि सत्यमेतदुचितं महात्मनाम् १२२ महसः सपत्नमथ तीव्रतेजसं परिभिद्य तत्र परमं पदं गते । व्यधितः प्रतीपनृपतिद्रुमानलः पृथिवीं प्रतीपनृपतिः पतिव्रताम् ॥ १२३ ॥ गुणरुद्धया विबुधसिन्धुशुद्धया सुरसम्रकेतुरिव यः पताकया। सुमदाह्वया प्रमदया प्रमोदभृद्विरराज राजशतसेवितक्रमः ॥ १२४ ॥ प्रतिनृपतियशोजलानि क्लुप्तप्रसूतिरपादनपायमस्य खड्गः । इति समितिहतेभकुम्भमुक्ताततिरधित च्युतबिन्दुवृन्दशोभाम् ॥ १२५ ॥ १. 'अविशत्खरांशुमखरांशुरंशुकैः' क. २. 'पुरोहत' क. ३. गृहरलं दीपः.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy