________________
४४२
काव्यमाला।
सदःपदे निर्ध्वनिके तदानीं व्यासाज्ञया शंतनुनन्दनेन । ते प्रेषिता जग्मुरथो रथोर्मिपश्चात्पतद्वायुरयाः पुराय ॥ ३७ ॥ द्विजैस्तदानीं परिषेव्यमाणः स्वःसिन्धुजन्मा विमलात्मवृत्तिः । शिलीमुखश्रेण्यनुविद्धमूर्तिर्बभौ मरालैरिव पद्मखण्डः ॥ ३८ ॥ निजानिजानामभिदानिदानं दानी तदा नीतिपरः पुरान्तः । स धर्मकर्मा स्मयमानकर्मा भिन्नाघमर्मा नृविभुर्बभासे ॥ ३९ ॥ भजत्यथाशां धनदस्य दीने कालक्रमक्षीणवसौ दिनेशे । जनार्दनायैः सह भूमिकान्तः पितामहोपान्तमहीमियाय ॥ ४० ॥ उन्मीलितध्याननिमीलिताक्षं मन्दाकिनीनन्दनमिन्दुकीर्तिः । युधिष्ठिरस्त्वां नमतीत्युदीर्य नत्वा निषण्णो नृपतिः पुरस्तात् ॥४१॥ भृशं विशब्दैरवलोक्यमानमुखारविन्दः परमर्षिवृन्दैः। दृशौ समुन्मील्य सभा निभाल्य गङ्गात्मभूर्भूमिविभुं बभाषे ॥ ४२ ॥ दिष्टयाद्य दृष्टोऽसि तपस्तनून सुप्तोऽस्मि मासद्वयमाशुगेषु । इहोत्तराभाजि रवौ भवन्तमामन्त्रयाम्येष शिवाय धाम्ने ॥ ४३ ॥ उक्त्वेति किंचित्परिवृत्तचक्षुर्भीष्मोऽम्बिकासूनुमिदं जगाद । न शोचनीयं भवताभितोष्यः संतोषभाजा सुत एष राजा ॥ ४४ ॥ अथाच्युतं क्लृप्तनुतिर्विनम्य गन्तुं तमामत्र्य तदाज्ञयाशु । प्राणानिलस्तम्भनशक्तिनिर्यच्छल्यौघमङ्गं मुमुचे महात्मा ॥ ४५ ॥ अभूतपूर्वामहिमद्युतोऽपि च्छायां क्षणं नर्तयदङ्गसीम्नि । भित्त्वा शिरः शंतनुनन्दनस्य ज्योतिर्विहायो विमलं. विवेश ॥ ४६ ॥ निर्माय दिव्यां शिबिकां युयुत्सुधृतातपत्रः क्षितिपेन भीष्मः । नीलश्चितायां चितचन्दनायां भीमार्जुनान्दोलितचामरायः ॥ ४७ ॥ प्रभोमिमैत्र्यादिव पावकेन क्रोडीकृतायामथ भीष्ममूर्ती । राज्ञानुगैः साकमकारि नाकतरङ्गिणीवारिणि वारिकृत्यम् ॥ ४८ ॥ हा हा वत्स शिखण्डिनापि मशकेनेव त्वमस्तः करी
क्वेति स्वीकृतपूर्वमूर्तिरतुलाकन्दाथ मन्दाकिनी । १. 'शान्तनु' ख. २. 'त्वमत्तः' क. ३. 'रकुला' क.