________________
४३४
काव्यमाला।
क लक्ष्मीरतिविश्वस्ते व सौख्यमतिशङ्किनि । तद्भाति नातिविश्वासी नातिशङ्की च भूपतिः ॥ १२७ ॥ उद्धृत्तदण्डनं दीनपालनं शीललालनम् । द्विजार्चनं च राज्यश्रीश्चतुःशालं महीभुजाम् ॥ १२८ ॥ कारणेऽपि विकोपानामलुब्धानां विपद्यपि । प्रमोदेऽप्यविकाराणां राज्ञां श्रीविरहासहा ॥ १२९॥ मित्राणि रणकालेऽङ्गरोमाणीव प्रमोदतः । यस्योच्छ्सन्ति भूमीन्द्रः स नेन्द्रेणापि जीयते ॥ १३० ॥ धर्मी धत्ते स्थितौ यः क्ष्मां तद्गुणैर्योगिनामपि । अतिब्रह्मलयानन्दैरमन्दैहियते मनः ॥ १३१ ॥ नयी नृपो नृणां सिद्धात्सुवर्णपुरुषादिव । यं धर्मादेशमादत्ते न स तेनापि हीयते ॥ १३२ ॥ क्ष्मारक्षणात्परं राज्ञः कृत्यं नास्ति लभेत यत् । जनानामर्थधर्माशौ तेन लोकद्वयाहितौ ॥ १३३ ।। एवं देवव्रतो राजधर्म धर्मस्य सूनवे । भूरिप्राग्भूपचारित्र्यचारुसौरभ्यमभ्यधात् ॥ १३४ ॥
(इति राजधर्माः ।) सर्वधर्मद्रुमाराममथामरधुनीजनिम् । शत्रुक्षीणश्रियां वृत्तिं राज्ञां पप्रच्छ पार्थिवः ॥ १३५ ॥ हृद्वर्तिविष्णुकेशान्तघनगर्जिघनैः स्वनैः । ध्वानयन्मेरुदध्वानं तमित्यूचे पितामहः ॥ १३६ ॥ क्षीणः परं प्रविश्यामि दिवाकरमिवोडपः । कलया कलया वृद्धः स्वां लभेत पुनः श्रियम् ॥ १३७ ॥ अस्ते मित्रैबले शत्रुमुद्यन्तं वीक्ष्य धीमता ।
संकुच्य क्रमलेनेव स्थेयं दिवसमिच्छता ॥ १३८ ॥ १. 'धमैंर्धत्ते' इति, 'धर्माद्धत्ते' इति वा भवेत्. २. सुरवर्त्म. ३. मित्रं सूर्योऽपि. ४. 'संकुचन्' क.