________________
४३२
काव्यमाला।
श्वो वक्तासि कृतिन्धर्मानित्युक्त्वा भीष्ममच्युतः । सपाण्डवो ययौ स्थानमाययुश्च निशात्यये ॥ १०१ ॥ अद्यासि निर्व्यथात्मा चेत्तद्धर्मान्दिश धार्मये । इत्युक्तिशालिनि माह वनमालिनि सिन्धुभूः ॥ १०२ ॥ त्वत्प्रसादात्पटुर्धर्मान्वक्ष्यामि त्वद्विरा विभो । स्वयं तु पृच्छतु क्षमापः किं ह्रीः क्षत्रोचिते कृते ॥ १०३ ॥ अथाच्युतगिरा पादलग्नो भीष्मेण भूपतिः। आघ्राय मूर्ध्नि मां पृच्छेत्युक्तोऽपृच्छन्नॅपक्रियाम् ॥ १०४ ॥ कृत्वा कृष्णाय धर्माय द्विजेभ्योऽपि हृदा नमः । ऊचे भीष्मः मितरुचा धर्मेणैवोज्ज्वलां गिरम् ॥ १०५॥ राजनराजन्ति राजानः पूज्यपूजादयानयैः । तारैः कङ्कणकेयूरहारैर्नटविटादयः ॥ १०६ ॥ हासप्रियो नृपः सारं पिबद्भिरनुजीविभिः । पदापि स्पृश्यते रोललोलैः पुष्पमिवालिभिः ॥ १०७ ॥ वृत्ति कल्पयतः स्वाङ्गव्ययेनापि गवादिषु । तृणादपि लघुनं सर्वधर्मोज्झितो नृपः ॥ १०८ ॥ अकर्णस्य जगत्प्राणपायिनो वक्रचारिणः । किं विश्वसेद्विजिह्वस्य भुजगस्येव भूभुजः ॥ १०९॥ सत्तेजःकीर्तिसूर्येन्दुः कालः क्षमाप इवापरः । क्वचिद्भीमः क्वचिच्छान्तः केन शक्येत लचितुम् ॥ ११० ॥ मखेषु देवं सेवन्ते श्रीपतिं दहनं च ये । गोपैः कोप्या न ते विप्राः श्रिये दाहाय च क्षमाः ॥ १११ ।। नोपेक्ष्यः स्खलिताचारः क्षमायामेकोऽपि भूभुजा । तस्मिल्लब्धपदः पाप्मा कं कं प्राप्नोति न क्रमात् ॥ ११२ ॥ नयकल्पतरुच्छन्ने क्षीणपङ्केऽस्तकण्टके ।
राज्ञामुद्यानवद्देशे धर्मः खेलति हेलया ॥ ११३ ॥ १. राजधर्मान्. 'नयक्रियाम्' ख. २. भूपैः. ३. 'व्याप्नोति' ख.