________________
४३०
काव्यमाला।
नकुलं बलरक्षासु धौम्यं द्विजजनार्चने । सहदेवं सहस्थित्यां स्थितिज्ञोऽथादिशन्नृपः ॥ ७६ ॥ (युग्मम् ) संस्थाप्य मन्त्रिणो नत्वा हरिं रत्नमये ददौ ।। स भीमार्जुनयोर्दुर्योधनदुःशासनौकसी ॥ ७ ॥ कौरवावसथानित्थमन्येभ्योऽपि विभज्य सः । गिरा हरेरलुब्धात्मा लब्धप्रशमनं व्यधात् ॥ ७८ ॥ श्राद्धं विधाय बन्धूनां भूपा(?)नथ यथाविधि । धर्मानेभ्यः प्रपाकूपसत्रकल्पानकल्पयत् ॥ ७९ ॥ विष्णुं जिष्णुनिकेतस्थमन्येयुः क्षणदात्यये ।
शश्वदन्तर्दशा दृष्टं दृग्भ्यां द्रष्टुं नृपोऽगमत् ॥ ८० ॥ सिंहासनसमासीनं ध्यानलीनं हरिं नृपः । शैलेऽम्बुदमिवालोक्य केकीव मुदितो जगौ ॥ ८१ ॥ त्वद्धामनेत्रकुमुदक्रीडानित्यमधुव्रती । विभावरी विभातेयं सुखभावेन ते विभो ॥ ८२ ॥ अथावादिनि गोविन्दे पुनरूचे नराधिपः । विश्वैकध्येय किं ध्यानं दीपमर्क इवासृजः ॥ ८३ ॥ इतिवाचि नृपे वाचि दृशावुन्मील्य विष्णुना । यो मां ध्यायति राजेन्द्र तं ध्यायामि स मामिव ।। ८४ ॥ उत्तराशां गतप्राये तपने तेनुमुक्तिधीः । दध्यौ मामधुना भीष्मस्तमहं मनसागमम् ॥ ८५ ॥ अथ प्रीत्याभ्यधाद्भूपो भगवन्भवदुत्सुकम् । भीष्मं यामः स मे धर्मान्वक्तुं त्वदर्शनाव्ययः ॥ ८६ ॥ श्रुत्वैतदचलद्भूपो भीमबीभत्सुसात्यकैः । मुकुन्दः स्यन्दनी स्कन्दसहोदरदिदृक्षया ॥ ८७ ॥ १. 'नुत्वा' ख. २. 'जिष्णु' क. ३. 'मनु' ख. ४. 'अथो' क. ५. 'ननु' क. ६. 'मुक्त' ख.