SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-३सर्गः] बालभारतम् । व गतासि तन्वि सहसेत्युदीर्णवाग्दशदिग्वलत्तरलकातरेक्षणः । अनिरीक्ष्य तामथ स तापविह्वलः प्रलपन्हहेति भुवि मूर्छितोऽपतत् ॥१७॥ नृपतिं तथाविधमथावलोक्य सा वियतोऽवतीर्य मदनैकवीर्यभूः । गदति स्म गत्वरतदीयजीवितस्थिरतापरीक्षितसुधागुणं वचः ॥ ८८ ॥ तपनात्मजास्मि तपतीत्यहं जगन्नुतकीर्तिरिन्दुकुलसंभवो भवान् । उचितो विवाहविधिरत्र किं तु मे पितृवश्यतैव बत याति विघ्नताम्॥८९॥ इतिवागियं वियदगादिलापतिः स तु मूर्छितप्रमुदितातिमूर्छितः । तपतापतप्तजलवृष्टिहृष्टिमत्पविपातकातरतरूपमामधात् ॥ ९० ॥ इह चानुपत्य सचिवश्वमूवृतः शिशिरक्रियाभिरुदतिष्ठिपन्नृपम् । वचसा च तस्य मततत्कथस्य स व्यसनी समारभत भानुसेवनम् ॥ ९१ ॥ स गुरुं वसिष्ठमनुचिन्त्य चेतसा विततोर्ध्वबाहुकृतसिद्धितोरणः । इह पञ्च सप्त च दिनान्युपोषितस्तपतीकृते तपनसेवनं व्यधात् ॥ ९२ ॥ तदवेत्य दिव्यदृगरुन्धतीपतिः स्वयमभ्युपेत्य तपनं येयाच च । अयमाशयोऽजनि ममाप्यदो वदन्स ददौ च संवरणभूभृते सुताम् ॥१३॥ प्रथमानमानसविकासयोरथ क्षितिकान्तकान्तिपतिकन्ययोस्तयोः ।। मदनव्यथाविपदि मज्जतोरभूदुभयोमिथो गुरुगिरा करग्रहः ॥ ९४ ॥ स च पञ्च सप्त च समाः समं तया विललास वासवविलासभूमिषु । स्वपुरीमवृष्टिगुणकष्टितां विशन्विदधेऽथ तत्क्षणसुभिक्षमासुराम् ॥ ९५ ॥ गुरुहारनिर्झरविलासभासुरा स्तनशैलकेलिपरकामकुञ्जरा । घृतगौरवेव तपती प्रियाथ सा विततान तस्य जगतीसपत्नताम् ॥ ९६ ॥ प्रभुरप्रभोर्भव मम प्रभूचिता त्वयि मूर्तिरित्यरिजनः कृपालुना । वननव्यकारितपुरीजनार्थनैः श्रियमोपि येन गिरिकूटकुट्टिमः ॥ ९७ ॥ हरिगर्भविश्वहरिगर्भविश्वतत्क्रमतो विभाव्य जगतामनन्तताम् । मुदितं जगद्धवलनैकतानताव्यसनातिपूरणरसेन यद्यशः ॥ ९८ ॥ युपतेः पुरा गुणकृतार्थितश्रुतेर्नयनानि तत्र सफलानि तन्वति । अपुषत्कुरुक्षितिपतिर्भृशं वशामवनीं विनीतवनितामिवाज्ञया ॥ ९९ ॥ १. 'चलत् क. २. 'ननाथ' ग. ३. परिग्रहः' क. ४. 'गौरवैव' ग. ५. 'आप' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy