________________
४२२
काव्यमाला ।
मृत्योश्चरा इव मुहुनिमेषा वेगिनोऽङ्गिनाम् । आयान्ति दृक्पथे जीवग्रहावसरमीक्षितुम् ॥ ५० ॥ अकस्मादेव कुत्रापि कदापि गमनेच्छया । जनं विश्वासयन्तीव श्वासाः शश्वद्गतागतैः ॥ ११ ॥ जगज्जीवातवस्तेऽपि श्रीरामभरतादयः । जाता वेति ह संदेहदोलायां कालतो गताः ॥ १२ ॥ जीवितं हन्त जन्तूनां नयनोन्मेषचञ्चलम् । सुखश्रीयौवनादीनां का तदंशस्पृशां कथाः ॥ १३ ॥ कृत्यं किंचित्करे कार्य तिष्ठत्यायुषि गत्वरे । तमिस्राविधुदुद्दयोते च्युतं द्रव्यमिव द्रुतम् ॥ १४ ॥ एष जीवितकल्पद्रुश्चतुर्वर्गफलप्रदः । शोकादनलकीलाभिः क्लीबा विफलयन्ति तम् ॥ १५॥ तद्भूलोकपते शोकं मुञ्चामुं चातुरीमय । गृहाण जीवितस्यास्य कालकालोचितं फलम् ॥ ५६ ॥ राज्ये यज्ञादिलीलाभिः सफलीकुरु यौवनम् । वार्धके तु धराधीश युक्तं मुक्तिकृते तपः ॥ १७ ॥ इत्यादिवाक्यैरन्यैश्च प्राग्भूपचरितैर्मुहुः । बोधितो बभ्रुणा तैश्च शुचावोचद्युधिष्ठिरः ॥ १८ ॥ धिड्यां बन्धुवधोद्भूतैरुद्भान्तैर्मम पातकैः । आकाशे कालिकोत्प्रेक्षां करिष्यन्ति कवीश्वराः ॥ १९ ॥ अपि जन्मसहस्राणि वह्नौ मे जुह्वतो वपुः। क्षयं यास्यन्ति गाङ्गेयघातकस्य व पातकम् ॥ ६ ॥ इति शोकातुरस्वान्तं विलपन्तमिलापतिम् । गिरा मधुरया व्यासमुनिराश्वासयञ्जगौ ।। ६१ ॥ निघ्नतो युधि धूतास्त्रान्गुरूनपि न हन्ति यः ।
राजन्स क्षत्रधर्मेकलोपपापेन लिप्यते ॥ ६२ ॥ - १. 'हृतम्' ख. २. 'तैः प्रभूतैः' इति शोधितं ख-पुस्तके.