________________
४२२
काव्यमाला ।
शकुनिः पतितोऽयमात्मजान्मम यन्मन्त्रनियन्त्रिताञ्शतम् । अजुहोदनुजक्रुधानलत्विषि धार्मिभुवि लब्धुमिन्द्रताम् ॥ १३८ ॥ इति सूनुशुचा विमूर्छिता पुनरासादितचेतना म सा । हरिमाह न मत्कुलं त्वया किमिवारक्षि लयोदयक्षम ॥ १३९ ॥ अयमीहगुपेक्षितस्त्वयाजनि कृत्स्नोऽपि कुलक्षयो मम। इति त्रिमितेस्तु वत्सरे भवतोऽप्यच्युत गोत्रविप्लवः ॥ १४० ॥ हरिराह पुरा हसन्नसौ मम दैवाद्भवितान्वयक्षयः । शुचमेमि न तेन शोच मा त्वमपीमान्भवितव्यताहतान् ॥ १४१ ॥ जगतामनिवारया तृषा विधुरासि द्रुतमेहि जाह्नवीम् । शुचमुज्झ पिबोज्ज्वलं जलं तनयेभ्यो ददती जलाञ्जलीन् ॥ १४२ ॥ इति विश्वविदा मुरच्छिदा तृषितेयं प्रकटीकृतस्पृहा । त्रपया वदहाः करोमि किं सुतशोकादपि दुःसहा तृषा ॥ १४३ ॥ समर व्यसुवीरमण्डल स्फुटसंख्यानगतियुधिष्ठिरः । धृतराष्ट्रनृपेण तत्क्षणं परिपृष्टो निजगाद दिव्यदृक् ॥ १४४ ।।
कोट्योऽष्टषष्टिीराणां द्वादशायुतसंयुताः । जनिरे समरेऽमुष्मिन्महःसंहतिदुःसहाः ॥ १४५ ॥ दश पञ्च च षष्टिश्च शतान्युत्तमतेजसाम् । हतानि राजराजानां सुरराजजितामपि ॥ १४६ ॥ चतुर्दशसहस्राणि लक्षाणि रणदक्षिणाः । विकटाः सुभटाः पेतुरिह पातितशत्रवः ॥ १४७ ॥ तुल्यज्वलन्मुखशतानलप्रबलपावने । रणोत्सङ्गे हुताङ्गास्तेऽभूवशतमखोपमाः ॥ १४८ ॥ मर्तव्यमिति योद्धारः प्रीता गन्धर्वतां गताः । पराङ्मुखा रणेऽस्त्रेण हता गुह्यकतामगुः ॥ १४९ ॥ न स्वामिभक्त्यै नो कीत्य न जयाय दिवे न वा ।
आवेशादेव ये युद्धे मृतास्ते ब्रह्मतां गताः ॥ १५० ॥ १. 'मञ्जुल' क. २. 'सुतेन' ख. ३. कुशला इत्यर्थः.