SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ११स्त्रीपर्व-१सर्गः] बालभारतम् । तनयेन जयाशिषेऽर्थिता भवती या सुकृते जयं जगौ । कुटिलेऽद्य सुते हते नृपं किमु शप्तुं सति धार्मिमीहसे ॥ ११ ॥ सुबलस्य सुता ततोऽवदन्मम ते दुर्नयिनो हताः सुताः । विदधे पुनरानलिः सुयोधनदुःशासनयोरसद्वयम् ॥ १२ ॥ अथ पावनिराह निर्मितं यदकृत्यं जननि क्षमस्व तत् । अपराधपरानकि क्वचित्किमु माता तनुजाञ्जिघांसति ॥ १३ ॥ कृतया सदसि प्रतिज्ञया कुरुभूपस्य मयोरुराहतः । अधरस्तु न मे विलचितो युधि दुःशासनरक्तधारया ॥ १४ ॥ अथ सक्रुधमाह सौबली व तपःसूनुरेनन्तमत्सरः ।। समरे मम येन नन्दनोऽगमि नैकोऽपि कुलस्य तन्तुताम् ॥ ५५ ।। अथ धर्मसुतः कृताञ्जलिः परिकम्पी पुरतः स्थितो जगौ । अयमस्मि सुतान्तकारिणं शप मां मातरुदात्तपातकम् ॥ ५६ ॥ मम संहृतबन्धुपद्धतेरसुभिः पापकलङ्कपङ्किलैः । सुकृतावतरेण सेव्यतां तव शापत्रिदशापगोपमः ॥ १७ ॥ इति वाचि नृपे न सौबली किमपि स्माह विनिश्वसन्मुखी । स नमन्कुनखः पुनस्तयाजनि पट्टान्तरदृष्टिवीक्षितः ॥ ५८ ॥ . तदवेक्ष्य भिया जयी ययौ हैरिपृष्टावपरेऽपि(?)तत्रसुः । उदयद्दयया ततस्तया दधतो भीतिमतीव सान्त्विताः ॥ १९ ॥ तदनु प्रणिपत्य तां तयानुमता नेमुरुपेत्य ते पृथाम् । कुलनाशभुवां दृशोरपां वितरन्तीं प्रमदाश्रुणे पदम् ॥ १० ॥ मखजामथ सूनुशोकिनीमधिरोप्याङ्कतटे प्रबोध्य च ।। तनयैश्च तया च संयुता सुबलक्ष्मापसुतां पृथानमत् ॥ ६१ ॥ ऋतुजामथ सौबली जगौ किमु वत्से शुचमेषि पश्य माम् । विधिदृष्टमिदं समागतं गतबन्ध्वात्मजयोरिहावयोः ॥ ६२ ॥ नियतानियतेनियोगतस्तनुभाजां मृतिरेति किं तु ते । द्युधुनीतरणे तथा रणे मरणेनापि न यान्ति शोच्यताम् ॥ ६३ ॥ १. 'रनून' क. २. 'हरिषष्ठाप्यपरे' ख; 'हरिप्रष्ठोऽप्यपरे' इति भवेत्.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy