SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३९७ ९शल्यपर्व-१सर्गः] बालभारतम् । तं मत्वाप्रहरिष्यन्तं नापपात पुनर्नृपः । निहन्यात्तदवस्थं चेत्तं न जीवेद्वकोदरः ॥ १२६ ॥ मूर्छन्ते तलमालोक्य तेनो प्रेरिता गदा । मुञ्चतस्तलमुत्पत्य नृपस्योरुं बभञ्ज सा ॥ १२७ ॥ तदोत्पातसहस्रेण विश्वे(?)वैधुर्यधारिणि । पपात विचलत्पादः श्रीलतापादपो नृपः ॥ १२८ ॥ निकारान्विषदानादी नुन्नादी श्रावयंस्तदा । पदा भीमो स्पृशन्मौलिमेकादशचमूपतेः ॥ १२९ ॥ अस्मान्द्यूतच्छलाजित्वा कृष्णां गौरिति ये जगुः । धर्मयुद्धान्निहत्याद्य ब्रूमो गौरिति तान्वयम् ॥ १३० ॥ इत्युद्दामवचा भीमो वार्यमाणोऽपि धार्मिणा । पुनर्नैकृतिकेत्युक्त्वा भूपं मूर्ध्नि पदास्पृशत् ॥ १३१ ॥ रुदन्नथाह त्वत्पुत्रो धार्मिबन्धो विधिर्बली । पितृव्यपुत्रयोरासीद्यद्वैरं नौ कुलान्तकृत् ॥ १३२ ॥ किं रे छलेन जित्वापि स्पृशसि मापमंहिणा । इत्युक्त्वाथ बली भीमं हली क्रोधादधावत ॥ १३३ ॥ कटेरधो न हन्तव्यं गदयेति विदन्नपि । अस्योरं भग्नवान्भीमः प्रतिज्ञापालने कृती ॥ १३४ ॥ अस्योरुभङ्गे मैत्रेयमुनिशापस्तथाफलत् । इत्यादिभिस्तदा वाग्भिः शौरिणा बोधितो बलः ॥ १३५ ।। पाण्डवाश्छलयोद्धारः कौरवा धर्मयोधिनः । इत्यस्तु ख्यातिरित्युक्त्वा क्रुद्धोऽथ द्वारकां ययौ ॥ १३६ ॥ युद्धे धर्मेऽप्यधर्मेऽपि पाण्डवाः काममाप्नुयुः । इत्यूचेऽथ वचः कृच्छ्राद्धार्मिणाभ्यर्दितो हरिः ॥ १३७॥ . दिल्या दुष्टस्य दत्तोंऽह्रिस्त्वया मूर्ध्नि रिपोरिति । स्तुतोऽथ भीमः पाञ्चालैर्धार्मिलालितपौरुषः ॥ १३८ ॥ १. 'मुस्तुत्य' ग. २. 'कारिणि' क. ३. 'ऋजु' ख-ग. ४. 'भ्यथितो' ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy