________________
९शल्यपर्व-१सर्गः] बालभारतम् । - ३९१
दुर्योधनशरोदस्तैर्भजे द्विट्चक्रमौलिभिः। भुञ्जानदण्डभृत्सैन्योत्क्षिप्तवायसपिण्डताम् ॥ ४९ ॥ स्वीकर्तुमिव निःशेषा तेन द्वेषिचमूः शरैः। आपुलमग्नैः पुजस्थनिजनामभिरङ्किताः ॥ १० ॥ सुशर्मकृपहार्दिक्यद्रोणभूसौबलाङ्गुलिः । अरातिषु कुरुक्ष्मापो यमपाणिरिवापतत् ॥ ११ ॥ कार्योऽद्य समरस्यान्त इत्युद्धान्तपराक्रमैः । ततः कल्पान्तकालोग्रैः संरब्धं कुरुपाण्डवैः ॥ १२ ॥ मा गा बलख तिष्ठेहि पूर्व प्रहर हन्मि तत् । इत्यन्तरेऽस्त्रपातानामश्रूयन्त भटोक्तयः ॥ १३ ॥ शस्त्रैरेव भटाः शस्त्रास्वैरेव भटारवाः। अहन्यन्त तदा तस्मिन्समरे त्रस्तखेचरे ॥ १४ ॥ लोकान्तान्तदुर्भेदे ततो रजसि विस्तृते । शब्दा एव नतामासन्स्वान्यपक्षोपलक्षणम् ॥ १५ ॥ क सुशर्मा क्व हार्दिक्यः क्व द्रौणिः क्व सुयोधनः । क सौबल इति व्यापुः खं तदा पाण्डवोक्तयः ॥ १६ ॥ जयसेनो महाबाहुर्जेत्रो दुर्विषहः सहः । विविंशतिर्दण्डधारः समं सहसुवर्चसौ ॥ ५७ ॥ सुजातः श्रुतवान्वातवेगो भूरिबलोऽप्यमी । राजन्भीमेन पुत्रास्ते त्रयोदश तथा हताः ॥ १८ ॥ (युग्मम्) त्रयोदशानां रक्तेषु स तेषां बिम्बितो दधौ । चतुर्दशजगत्राणे द्राक्चतुर्दशतामिव ॥ ५९॥ सर्वे जयाय धावन्ति मया लभ्योऽद्य संजयः। इति ब्रुवाणः सैनेयो राजन्मामग्रहीत्तदा ॥ ६ ॥ उग्रकर्मा सुशर्माणं सानुजानुगनन्दनम् ।
स्वर्गमार्गसुशर्माणं ससैन्यं निर्ममेऽर्जुनः ॥ ६१ ॥ १. 'पहोरिहा' ख-ग. २. 'दुर्मर्षणो दुष्प्रधर्षः' ख-ग.