________________
काव्यमाला।
तृतीयः सर्गः। सुकृतस्य खड्गमिव तारतीव्रताव्रतधारमाश्रयत कृष्णयोगिनम् । यदि वो दिवानिशपराभवोद्यतभ्रमदन्तरारिभयभङ्गुरं मनः ॥ १ ॥ नृपसिंहसंहतिषु संगरक्रियाविमुखीषु विक्रमविलासकौतुकी। स कदाचिदाचितशरासनो वनं मृगराजराजिमृगयेच्छया ययौ ॥ २॥ अवनीधवः स मृगमित्रलोचनाजनलोचनप्रियतनुर्धनुर्धरः । उचितं यदेणरिपुवारदारणोद्यमदारुणोऽजनि तदारुणो रुषा ॥ ३ ॥ प्रहरन्हरीनथ चमूपृथक्चरः श्रितमालिनीसरिदुपान्तकाननः । स ददर्श कण्वमुनिभर्तुराश्रमे रुचिधाम कामपि कुमारिकामयम् ॥ ४ ॥ सुमगुच्छचक्रयुगसंनिस्तनी मृगपोतनीलनलिनाभलोचना । नवपल्लवाम्बुजसदृक्करकमा गजराजहंससमयानविभ्रमा ॥ ५ ॥ वनचारिणीयमिह वाहिनीतटे वनदेवता किमुत वारिदेवता । इति तद्विलोकनकुतूहलोल्लसन्नयनद्वयश्चिरमचिन्तयन्नृपः ॥ ६ ॥ (युग्मम्) अथ भूपमप्रतिमरूपभासुरं रभसान्निरूप्य विकसद्विलोचना । अपि गोचरीकृतरतिप्रियेण सा मनसा रसाधिकमुवाह विस्मयम् ॥ ७ ॥ परिकल्पितातिथिजनोचितक्रियामथ तामुवाच विनिविश्य पार्थिवः । क्क मृगाक्षि कण्वमुनिपुंगवोऽधुना नमनाय तस्य तरलं हि मन्मनः ॥ ८॥ अथ तद्विलोकरसभावनत्रपावशकर्णकोटरविशद्विलोचना । विपिनं गतः फलकृते समेष्यति त्वरितं मुनिर्मम पितेति साभ्यधात् ॥९॥ अपि शैशवायेथितमन्मथः स किं सविता तवेत्युदितवाचि पौरवे । निजगाद सा दशनदीप्तिमण्डलच्छलसेवकीकृतसुधाचयं वचः ॥ १० ॥ कुशिकात्मजस्य नृपतेस्तपस्यतस्तपसोऽन्तरायकृतये पुरा हरिः। विषमास्त्रवीरपरमास्त्रमप्सरोजनमौलिमण्डनमयुङ्क्त मेनकाम् ॥ ११ ॥ नलिनानि पानमधुभाजनानि नः पिदधाति यः स विधुरेष गोचरः । इति रोषणैरिव मधुव्रतैधुतं दधती मुखं सुरभिचारुमारुतम् ॥ १२ ॥ . १. 'अवाप' ग. २. 'वशित' क. ३ ‘स पिता' क.