SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व - ३ सर्गः ] बालभारतम् । याममुञ्चद्गजवलां घण्टालंकारिणीं गदाम् । तं द्रुम इवाभस्तद्रोणस्तया रथः ॥ १२५ ॥ तदा त्वदात्मजो राजन्सानुजो मनुजेश्वरः । स व्यालचन्दनवनौपम्यं भीमाशुगैरगात् ॥ १२६ ॥ वृन्दारकं दीर्घनेत्रं सुषेणं दुर्विमोचनम् । द्रौणकर्माणमभयं चित्रकान्ति सुदर्शनम् ॥ १२७ ॥ इत्यष्टौ त्वत्सुतान्राजन्नाजघान वृकोदरः । तच्छिरोभिः शरोत्क्षिप्तैः कन्दुकैः क्रीडयन्दिशः ॥ १२८ ॥ वर्षन्कीनाशदासेभ्यो हतैर्दण्डैरिवाशुगैः । स्यन्दनेनाष्टनादेन तदा द्रोणस्तमाद्रवत् ॥ १२९ ॥ रामरावणसंग्रामगुणग्राममलिम्लुचः । तदोच्छ्रसदवष्टम्भः संरम्भः कोऽप्यभूत्तयोः ॥ १३० ॥ रथादथावरुह्याशु भीमो हस्ताग्रहेलया । हस्तीवोत्पाद्य चिक्षेप दूरे दूरे रथं गुरोः ॥ १३१ ॥ पृथकृताङ्ग शेततः शताङ्गाद्विद्वते गुरौ । रथी वरूथिनीं भीमो विशद्विदशविक्रमः ॥ १३२ ॥ अपूर्णचर्वणश्रद्धान्दूर देशान्तरागतान् । यमदन्तानिव शरान्प्रीणयन्प्राणिकोटिभिः ॥ १३३ ॥ कर्णानीकं समीकार्थी घनाकुलमनाकुलः । भीमो भजद्गज क्रीडाकान्तारमिव केसरी ॥ १३४ ॥ ३५१ ( युग्मम्) ( युग्मम्) संरब्धशैनेयधनुर्निनादानादाय भीमोऽद्भुतमुन्ननाद | तक्ष्वेडया दध्मतुराशु कृष्णौ कम्बू तदा धार्मिमनोविनोदौ ॥ १३९ ॥ पराङ्मुखोद्वर्तितवार्धिबिभ्यद्वीपान्तरः कोऽपि स शब्दपूरः । श्लथार्धनारीश्वरसंधिबन्धः समीरणस्कन्धसमीरयोऽभूत् ॥ १३६ ॥ १. 'चन्दनौपम्यं भीमं ' ख ग २. 'शतकातू' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy