________________
भीष्मपर्व-२सर्गः] बालभारतम् ।
३०१ धुनीसुतशरोद्भूतैरास्यैराज्ञां सकुण्डलैः । सर्वाङ्गमफलव्योम सूर्येन्दुफलपादपः ॥ ७ ॥ इत्यस्य विशिखापातैर्वातैरिव विलोडिताम् । विलोक्य वाहिनी क्रोधादधावद्धनुमद्धजः ॥ ८॥ मर्माविद्भिर्द्विषां बाणैः कटाक्षैरिव सुभ्रवः । पुरतस्ताड्यमानोऽपि हृष्यन्नेवापपात सः ॥ ९ ॥ स बाणविद्धसर्वाङ्गं गलद्रक्तं द्विषद्बलम् । मनसः कोपंतप्तस्य धारागृहमिव व्यधात् ॥ १०॥ तमभ्यधावत्क्रुद्धोऽथ धुनीसूनुः किरशरान् । संहर्षोत्तालपातालकुमारप्रकरोपमान् ॥ ११ ॥ पार्थस्य चापतः सिन्धोर्मर्यादात इवोर्मिभिः । शरैः प्रसले रुन्धद्भिर्लोकान्रोद्धुमपारितैः ॥ १२ ॥ विक्रमोपक्रमस्ताभ्यां तदा कोऽपि तथादधे । व्योमापि विशिखस्तोमै रोमाञ्चीव यथैक्षत ॥ १३ ॥ स्पशैंकपेयं मधुरममरीकारकारणम् । अन्येऽप्यारेभिरे वीरा द्वन्द्वयुद्धरसायनम् ॥ १४ ॥ क्षतेभकुम्भोद्यन्मुक्ताछलोच्छलितशीकरम् । रेमे कलिङ्गवाहिन्यां भीमः साकं जयश्रिया ॥ १५ ॥ भीमभिन्नकरिश्रेणिरक्तवेणिषु मज्जताम् । तत्रासञ्जीवितत्राणं शरणं जीवतां मृताः ॥ १६ ॥ व्योम्नि भीमक्षतोत्क्षिप्ता द्विरदा नीरदा इव । रक्तवर्षेः कलिङ्गेषूत्पातं कंचिदमूमुचन् ॥ १७ ॥ मीमोऽवधीच्छकदेवं भानुमन्तं च गोपतिम् । इत्युच्छूिते ध्वनौ सिद्धान्यधुरिन्द्रार्कयोर्दशम् ॥ १८ ॥ ततो मूर्छत्पतद्वीरमुन्ननाद वृकोदरः ।
दिग्गजा द्यां तदैक्षन्त त्रुटद्ब्रह्माण्डशङ्कया ॥ १९ ॥ ... १. 'कोपतस्तस्य' क. २. 'मवारितैः' ग.