________________
१आदिपर्व-२सर्गः] बालभारतम् । प्राचीनभूपोऽभवदश्मकीशस्ततः स्मरादप्यधिकेन येन । भृशं यशोभिः कुसुमावदातैर्व्यलोपि सोऽपि प्रसभं त्रिनेत्रः ॥ ११ ॥ सदा मदारम्भविजृम्भिणोऽपि रणेषु वीक्ष्य त्रसतोऽरिवीरान् । स्मितं सुरौधैर्यदकारि यस्य तदेव दिव्यानि यशांसि जातम् ॥ १२ ॥ चौराङ्गनालोचनवारिपूरैरन्यायवह्निः शमितो यदुर्व्याम् ।। निःश्वासवातैरभिसृत्वरीणा भस्मापि कुत्रापि निरासि तस्य ॥ १३ ॥ वृथाप्रयासो बलिजित्किमासीच्चतुर्दुमोऽभूदथ नाकलोकः । रसैव रत्नं सुषुवेऽप्यवेदमित्यूचिरे दातरि यत्र लोकाः ॥ १४ ॥ रराज संयातिरिति क्षितीन्दुर्वरो वराङ्गया यदसिप्रणुन्नौ । विवर्धितस्पर्धमुदारवेगौ दिवं यशोवैरिगणावयाताम् ॥ १५ ॥ जानन्युगान्तेऽप्यवियुक्तमिन्दुगङ्गाभुजंगेशवृषादिभिः स्वम् । मन्ये मुदा नृत्तपरो हरोऽपि भावी विविक्तेषु यशःसु यस्य ॥ १६ ॥ कर्तुं न यस्मिन्किमपि प्रगल्भा द्विप्राणपानात्ययायुवल्भाः । व्रीडादिवाधो विषभृन्मिषेण द्विषन्नृपाणामगमन्कृपाणाः ॥ १७ ॥ ईर्ष्या परित्यज्य कृती यदीयमाधाय रूपं नलकूबरोऽपि । येदेकचित्तां परचित्तवेदी बँभाज रम्भां विरहज्वरार्ताम् ॥ १८ ॥ तस्मादहंयातिरंभुक्त भानुमतीप्रियः क्ष्मां यदसौ प्रवेष्टुम् । . अवीविशबिम्बमिषादरातिः स्वमेव मूर्त्यन्तरमनतोऽपि ॥ १९ ॥ . विधाय वैरं सह येन वीराः प्रकाममज्ञानतयैव गावः। चतुष्पदाः क्षोणिमिलत्करत्वान्नतास्तृणं युक्तमधुर्मुखेषु ॥ २० ॥ एकोऽपि येन व्यतिषक्तकण्ठः श्रीकण्ठ एव प्रथितः खलूनः । यस्यासिरुत्कृत्तबहूग्रकण्ठस्तेनोपमेयः क हलाहलेन ॥ २१ ॥ एभिर्विमानैरुपरि स्फुरद्भिर्मा ग्राहि नः श्रीरिति जाग्रति स्म । अहर्निशं यद्भुवि निर्निमेषकपाटपक्ष्माणि निकेतनानि ॥ २२॥
१. 'ईदृक् क. २. 'ऽथ' ३. 'प्रभाविविक्तेषु' ग. ४. वायुभोजनाः. ५. 'मदेक' ग. ६. 'परिचित्त' क-ख. ७. 'वभार' क. ८. 'अधत्त' ग... 'भ्रमद्भिः ' ग. .