________________
काव्यमाला।
(उदेति शीतो मृतिसंमुखानामस्मादृशां भेदभियेव भानुः । विकम्पते भूरपि वीरशय्याशयालुदुर्योधनसंगमेच्छुः ॥ २५ ॥] चण्डालभूतेष्विव दुश्चिरित्रैर्धावन्ति दूराद्भषणा भषन्तः । काकाश्च मौलीनभि कौरवेषु मृतेष्विव क्रूररवाः पतन्ति ॥ २६ ॥ हीणा इव स्वै]श्वरितैः स्वमास्यं स्वस्याप्यहो दर्शयितुं न शक्ताः । इतीव दिव्येषु विलोकयामः कबन्धमानं मुकुरेषु गात्रम् ॥ २७ ॥ प्रासादवृन्देऽस्मदभाग्यदुष्टभूतग्रहार्ता इव देवतार्चाः । विद्यन्ति कम्पं दधते हसन्ति वमन्ति रक्तं निपतन्ति भूमौ ॥ २८ ॥ कुहूकलामस्मदकीर्तिलेपैरिवाश्रयत्कार्तिकपूर्णिमापि । चञ्चन्ति चास्मत्क्षयकालरक्तः करालवक्राग्निशिखावदुरकाः ॥ २९ ॥ धातापि संमूढ इव क्षयेऽस्मिन्वृक्षेषु पुष्पाणि विपर्ययेण । करोत्यकालेऽधिकहीनगात्रान्डिम्भान्विजात्यानपि गर्भिणीनाम् ॥ ३० ॥ एकाङ्गनायां बहुशोऽपि जाताः सद्योऽपि नृत्यन्ति हसन्ति कन्याः । प्रविष्टमात्रा इव विश्वरङ्गनट्योऽस्मदायुःक्षयनाटिकायाः ॥ ३१ ॥ आसन्नमृत्यून्मृतभक्षणेच्छुालोलजिह्वावलयः कृशानुः । संध्याद्वये पश्यति नित्यमस्मान्दिग्दाहदम्भेन दिशोऽधिरुह्य ॥ ३२॥ स्वप्ने नु दृष्टा दिशि दक्षिणस्यां यान्तो मया प्रौढमयाधिरूढाः । स्वे शोणचीराभरणाः पितॄणां पत्युगृहं गन्तुमिवात्तवेगाः ॥ ३३ ॥ प्रासादमारुह्य सहस्रपत्रं स्वमूर्तिमत्पुण्यमिवोल्लसन्तः । खप्ने व्यलोक्यन्त मया जयश्रीविश्राम मिस्तु निजानुजास्ते ॥ ३४ ॥ भक्षन्भुवं धर्मभवोऽद्रिवर्ती भीमः किरीटी घृतपायसाशः । स्वप्ने मयैक्ष्यन्त यमौ गजस्थौ नृवाहनस्थौ हरिसात्यकी च ॥ ३५ ॥ युष्मलेऽमी खलु सप्त दृष्टाः स्वप्ने विशुद्धाम्बरलेपमाल्याः। दौर्योधने तु त्रय एव सैन्ये कृपः कृपीभूः कृतवर्मवीरः ॥ ३६ ॥ १. अयं श्लोको ग-पुस्तके त्रुटितः. २. कोष्ठकान्तर्गतपाठः ख-पुस्तके त्रुटितः. ३. 'भूमीषु' स. ४. 'रक्षन्' ख.