SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। तैः सार्धमीश जयिभिर्विदधे विरोधं ___ मामेव यो मनसिकृत्य मृधैकधुर्यम् । आबालकालसुहृदं व्यसनोदयेऽद्य तं मुञ्चतः स्फुटति मे हृदयं ह्रियैव ॥ ८२ ॥ दुर्योधनादपि युधिष्ठिरमभ्युपेत__ मद्यापि मां स्खलितसख्यमुदाहरन्तः । मां प्रीतिपूर्णमपि नीतिविदो विदन्तु मित्रं कलत्रमिव विश्वसनस्य बाह्यम् ॥ ८३ ॥ बन्धवोऽपि विरुद्धाः स्युर्लक्ष्मीलेशस्य लोभतः । जगतोऽपि जयत्येको जीवितालम्बनं सुहृत् ॥ ८४ ॥ मुञ्चे दुर्योधनं चैतद्विश्वे मित्रपराङ्मुखे । हा कः कस्य मनःशल्यदुःखोद्धारं करिष्यति ॥ ८५ ॥ इति कृतगिरमङ्गाधीशमीशप्रशंसा___ शुचिरुचिरचरित्रं वीरमापृच्छय विष्णुः । द्रुततरगति गत्वा कारयामास धर्मा ङ्गजमसहनवर्गश्रीप्रहाणं प्रयाणम् ॥ ८६ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराके उद्योगपर्वणि दुर्बोधदुर्योधनो नाम द्वितीयः सर्गः । ___ तृतीयः सर्गः । धराधृतिद्वेषिहतिप्रतिष्ठितावतारसंभारसमुद्भवश्रमः । शमामृते विश्रमधीविवेश यः स पातु पाराशरविग्रहो हरिः ॥ १ ॥ कृती कुरुक्षेत्रगमाय विष्णुना स्वयं प्रयाणाय कृताभिषेचनः । परोपरोधादधिरूढवानथो रथं पृथाभूः पृथिवीपुरंदरः ॥ २ ॥ वृकोदराद्याः सहसा मनस्विनः सहोदरास्तं परिवत्रिरे नृपम् । धुहस्तिनो हस्तमिवासुहृद्गणच्छिदानिदानं रणपारदा रदाः ॥ ३ ॥
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy