________________
२५६
काव्यमाला।
एते चान्ये च नानाद्रिविषयक्षोणिनायकाः । संदध्य विदधुः सप्ताक्षौहिणीशं युधिष्ठिरम् ॥ ६१ ॥
(युग्मम्) समं जग्मतुरावातुं हरिं दुर्योधनार्जुनौ । पश्यतः स्म स्वपन्तं तमन्तरन्तःपुरं च तौ ॥ ६२ ॥ कौरवस्तस्य शीर्षान्ते पादान्ते फाल्गुनः स्थितः । ततः श्रीपतिना प्रैक्षि प्रबुद्धेन पुरोऽर्जुनः ॥ ६३ ॥ पृष्ट्वा हर्षमनाः पार्थमनामयमथैक्षत । शय्योपधानलग्नांसं केशवः कौरवेश्वरम् ॥ ६४ ॥ संपराय सहायत्वमाभ्यामभ्यर्थितस्ततः । मुरारातिः परावृत्य कौरवप्रभुमभ्यधात् ॥ ६५ ॥ त्वं प्राप्तः प्रथमं पार्थश्वरमं नृप यद्यपि । तथापि वृणुते पूर्वदर्शनादयमेव माम् ॥ ६६ ॥ एकतो युद्धमुक्तोऽहमेकतोऽक्षौहिणी च मे । समाविमावुभौ भागौ ग्रहाणाक्षौहिणीमतः ॥ १७ ॥ इत्युक्तः शौरिणा हृष्टोऽधिष्ठितां कृतवर्मणा । क्षमापतिः समादाय यादवाक्षौहिणी ययौ ॥ ६८ ॥ सारथ्यतथ्यखीकारकारिणा हरिणा सह । जितानेव रिपूञ्जानन्पार्थोऽपि प्राप पार्थिवम् ॥ १९ ॥ शल्यं पार्थेषु गच्छन्तमन्तर्गत्वा सुयोधनः । . संतोष्य भक्तिभिर्दक्षः स्वपक्षत्वमयाचत ॥ ७० ॥ इत्यावेदयितुं मद्रनरेन्द्रोऽयमुपागतः । जगदे पार्थनाथेन यात यूयं यथेप्सितम् ॥ ७१ ॥ अस्माकं तु प्रियं कर्तुं कुरुपक्षाश्रयेऽपि वः । निन्दावचोभिः कर्णस्य कार्यस्तेजोवधो युधि ॥ ७२ ॥ १. 'संसज्ये' ख; 'संभिद्य' इति क-पुस्तकशोधितपाठ एव वरम् , यथाश्रुतपाठस यथाभिप्रेतार्थाबोधकत्वात्.