SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ५उद्योगपर्व-१सर्गः] बालभारतम् । इति जानेऽघसंधाने न धीरपि विधीयते । तैर्भीमैकगदासाध्यैश्छलिभिर्वैरिभिः सह ॥ २४ ॥ एवं वाग्दृष्टिनीमूते सृञ्जयेऽथ विरामिणि । बभार भारती विष्णुर्मराल इव कोमलाम् ॥ २५ ॥ नीतिसारं नृपः माह शौर्यसारं च सृञ्जयः। क्व स्थानं मद्रािं वच्मि येदौदासीन्यदोषभीः ॥ २६ ॥ रण्डा निर्विक्रमा नीतिरनीतिर्विक्रमोऽप्यसन् । कीर्ति जनयते गौरी मिथुनं नीतिविक्रमौ ॥ २७ ॥ धावन्क्रोधान्धकारेषु नीतिदीपिकया विना । स्खलित्वा क्षमाभृति प्रौढे भज्यते विक्रमः क्वचित् ॥ २८ ॥ शौर्येण स्मेरिता नीतिः सूर्येणेव सरोजिनी । राजहंससमूहस्य वशीकरणकारणम् ॥ २९ ॥ तदस्ति हस्तगं शौर्यमिह नीतिः प्रयुज्यताम् । भजन्ते यदि संधानमन्धावनिपनन्दनाः ॥ ३० ॥ ईदृग्गिरि हरौ भूपपादपीठोपसेविनी ।। शोणदृक्कोणका रोषपदं द्रुपदजावदत् ॥ ३१ ॥ नीतिः पततु वो मूर्ध्नि क्षयं व्रजतु वो मतिः । पातालं यातु वो मन्त्रः शास्त्रं चैतत्प्रलीयताम् ॥ ३२ ॥ तदा सदसि मां वीक्ष्य तैः कृष्टकचवाससम् । प्रलीनं चेलं तत्कि स्फुटितं न हियापि हृत् ॥ ३३ ॥ संधिं निर्मातु निर्मानः सह तैरहितैर्नृपः । अहं तु हन्तुमद्य स्वमुद्यतास्मि हुताशने ॥ ३४ ॥ इति वाचालपाञ्चाली निःश्वासानिलवीचिभिः।। धगन्क्रोधानलो भीमो गाढमुज्ज्वालतां गतः ॥ ३५ ॥ १. 'जातेऽथ' ग. २. 'यद्यो' ख. ३. क्ष्माभृति राजनि पर्वते च. ४. 'ततः' ग. ५. 'मुद्बलतां' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy