________________
काव्यमाला।
प्रियायुक्तो मुक्ताविशदगुणराशिगुरुजनं _ नमश्चक्रे चक्रेतरहृदयवृत्तिद्विजगिरा ॥ ८५ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाजभ्रमरोपमानममरो नामव्रतीन्द्रः कृती । पर्वैतद्विकटं विराटनृपतेस्तद्बुद्धिसिन्ध्वापगाशुद्धोर्मित्विषि बालभारतमहाकाव्ये तुरीयं ययौ ॥ ८६ ॥ सर्गेश्चतुर्भिरप्यासीदस्मिन्वैराटपर्वणि । अनुष्टुभां पञ्चशती षडशीतिश्च निश्चिता ॥ ८७ ॥
इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के विराटपर्वण्यभिमन्युपाणिग्रहणो नाम चतुर्थः सर्गः ।
इति विराटपर्व समाप्तम्।