________________
२४८
काव्यमाला। एणीदृशां श्रोणिरिमा कुमारी सकुङ्कुमामस्नपयत्पयोभिः । शुभ्रांशुकुम्भप्रभवैविभाभिः ससांध्यरागां रजनीं यथा द्याम् ॥ ११ ॥ सा चन्द्रिकाभं परिधाय वासश्चन्द्रानना प्राप विभावरीव । भावन्मणिस्तम्भचतुर्दिगद्रि नभोनिभं केलिवितर्दिमध्यम् ॥ १२ ॥ प्राचीमुखीं चन्द्रमुखीमथैनां निवेश्य नेपथ्यविधिळधायि । यस्तोषिणा बन्धुवधूजनेन स प्राप नेपथ्यमिदं तदङ्गे ॥ ६३ ॥ विभूषणाभोगधरा वराङ्गी विलोक्य रूपं मणिदर्पणे सा । आकाङ्क्षदात्मन्यभिमन्युभावं मुदाभिमन्यौ च तदात्मभावम् ॥ ६४ ॥ ततान दीक्षातिलकं सवित्री तस्या यदास्येऽर्पितचन्द्रदास्ये । तत्रैव पर्यङ्कसमे समेत्य चकार केलिं सरतिर्मनोभूः ॥ १५ ॥ पूर्ण यदूर्णामयसूत्रमस्या हस्ते जनन्या जनितं तदानीम् । पाणिग्रहारम्भजुषालभन्त न तेन साम्यं मणिकङ्कणानि ॥ ६६ ॥ आबिम्बिता रत्नमयीभिरके सा गोत्रदेवीभिरपि व्यधायि । मातुर्गिरा तारतमं नमन्ति किमुच्यते बन्धुजनाङ्गनाभिः ॥ ६७ ॥ इतश्च पुत्र्या द्रुपदस्य हर्षात्तदाभिमन्युः शतमन्युतेजाः। अलंकृतो नव्यविभूषणानां गणेन पाणिग्रहणोचितेन ॥ १८ ॥ स्फुटाननं छन्नसमग्रदेहश्वीरेण वीरः कलयनराज । शुभ्रीकृतश्चन्द्रिकया विकासिशशाङ्कबिम्बं किल पूर्वशैलः ॥ १९॥ यन्निर्ममे निर्मलचन्दनेन विशेषको भालतले जनन्या । मृगाङ्कबिम्बात्कलयाधिकश्रि तेनाननं तस्य तदा बभासे ॥ ७० ॥ जितं गुरुत्वेन तदान्तरिक्षं जगाम तस्यानुचरत्वमेव । श्याम लवूभूय विविक्ततारं स पुष्पधम्मिल्लनिबन्धदम्भात् ॥ ७१ ॥ मुखेन्दुसङ्गच्युतचन्द्रकान्ततौटङ्कयुग्मामृतनिर्झराभाम् । बभार हारः शतसंख्यदामा तत्कण्ठधामा घनसारधामा ॥ ७२ ॥ मुखे मृगाङ्कः कुलवत्सलत्वात्प्रेम्णा च पौत्रस्य हरिविभुत्वे । चक्रेऽवतारं पितृभागिनेयस्नेहेन देहे मदनोऽपि तस्य ॥ ७३ ॥ १. 'रभि' क. २. 'स्फुटाननच्छन्नसमप्रदेहे चीरे स वीरः' क-ग. ३. 'ताडकख-ग.