________________
४ विराटपर्व - ४ सर्गः ]
बालभारतम् ।
केनापि दिव्यपुरुषेण पौरुषं पुण्येन मे विदधता जिता द्विषः ।
गन्ता दिनैः प्रकटतां स तु त्रिभिः श्रुत्वा सुतोत्तरमिति स्मितो नृपः १९६ कामः काममयं करोति जगति क्रीडोत्सवानेकया
रत्या साकमितीव पाकविषयप्राप्तैरसूयारसैः ।
प्रीतिर्वीरकुमारवीर विजयश्रीसंभ्रमप्रेरिता
२४३
-
निष्कास्य तदा चकार सदनं चित्ते पुरवासिनम् ॥१९७॥
इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के विराटपर्वणि दक्षिणोत्तरगोग्रहे पाण्डवजयो नाम तृतीयः सर्गः ।
चतुर्थः सर्गः । मुदेऽस्तु वः कृष्णमुनिर्यदीयभावद्वपुर्दन्तनखप्रभाभिः । विचित्ररत्नाभरणा न के के विमुक्तिकान्तासुभगीभवन्ति ॥ १ ॥ स्वयं तृतीयेऽथ दिने दिनादौ स्नातो विशुद्धाम्बरमाल्यधारी । धर्माङ्गजैः स्वैरनुजैश्चतुर्भिः सिंहासने मत्स्यविभोर्न्यवेशि ॥ २ ॥ वृत्तान्तमावेदितमुत्तरेण मत्वाथ तोषाब्धिविभुर्विराटः । आगत्य धर्मात्मजपादयुग्मे लग्नः क्षमस्वेति मुहुर्बुवाणः ॥ २ ॥ मग्नस्तदा धर्मतनूजपादनखप्रभावारिणि वीरमुख्यैः । ऊर्ध्वकृतो भूमिपतिश्चतुर्भिर्भीमादिभिर्भूरिभुजप्रभावैः ॥ ४ ॥ करौ किरीटे नखरत्नराजिविराजितो हेमविधौ विधाय । हारं सृजन्वक्षसि दन्तकान्त्या प्रति प्रभुं वाचमुवाच राजा ॥ ५ ॥ अहं च देशश्च पुरी च नाथ वर्तामहे स्म त्रिजगत्पवित्राः । त्वदीयसङ्गादधुना कुलं मे पुनीहि कन्यां जयिने ददामि ॥ ६ ॥ इत्येतया तोषविशेषसान्द्रो गिरा विराटस्य धराधिनाथः । दृशं भृशं शाक्रिमुखारविन्दे चिक्षेप लोलभ्रमराभिरामाम् ॥ ७ ॥ it रुचा प्रत्युपकारगौरै रदाम्बरस्याम्बरमासृजद्भिः । विवेकभूववभूर्बभाषे शिष्यां सुतावद्गुणयन्ति धीराः ॥ ८ ॥ १. ‘तं’ क. २. ‘स वः' ख. ३. 'जस्तैरनुजै' ख. ४. 'खै' क.