SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २२९ ४विराटपर्व-२सर्गः] बालभारतम् । पदपातविकम्पितक्षितिः करघातध्वनदम्बरस्ततः । चकितः क्षणदाचरः परः समरस्तत्र तयोरजायतः ॥ ४२ ॥ अथ भीमभुजामहार्गलप्रबलापातचयेन कीचकः । रुधिरं वमति म हृद्गतं क्रतुपुत्रीनिबिडानुरागवत् ॥ ४३ ॥ अखिलैरपि कीचकाङ्गकैः समरे भीमकरेरितैर्दुतम् । हृदि यातमहो बहिः प्रियामनवाप्तां समवाप्तुमुत्सुकैः ॥ ४४ ॥ सुरभीरुविलासविस्मृतद्रुपदापत्यरसेऽथ कीचके । दयितामभिमाष्य मारुतिर्मुदितोऽशेत महानसं गतः ॥ ४५ ॥ तदनु प्रहतं प्रहर्षितऋतुजादिष्टमवेक्ष्य कीचकम् । अजनिष्ट जनोऽखिलः खलूदितवित्रासविषादविस्मयः ॥ ४६ ॥ अथ तत्र समं सुदेष्णया सुदृशस्तस्य सहोदराश्च ते । कृतहाकृतिदुःसहखनाः सहसा नृत्यनिकेतने ययुः ॥ ४७ ॥ प्रतिशब्दमिषेण देहिनां निबिडाक्रन्दभृतां पदे पदे । अपि कुट्टिमकेलिपर्वतत्रिदशावासभरैररुद्यत ॥ ४८ ॥ विजयिन्बलिनः सुशर्मणः स्मरवीरप्रतिवीरविग्रहम् । अनिमेषकराललोचनाः सुरनार्यः स्खदिताः किमद्य ते ॥ ४९ ॥ हरिणा स्वयमर्थितो यदि प्रिय जेतुं दिवि दानवान्भवान् । अवचःपरिभाषणो ययावपरीरम्भभरोऽपि नः कथम् ॥ ५० ॥ विलसन्तमनङ्गमङ्गिनं सुदृशस्त्वामिह मेनिरे भुवि । अधुना तपसोजितं प्रियं धुवधूस्तादृशमेव मन्यताम् ॥ ११ ॥ कृतमेतदहो युवासिनां मनसा सिद्धिमुपैति वाञ्छितम् । सुरभीरुभिरन्यथा कथं त्वमकस्मात्परिरभ्यसे प्रिय ॥ १२ ॥ अनिमेषविलोचनासु चेत्तव रागः सुरकामिनीषु च । द्रुतमेहि महाशय स्वयं न निमेषो नयनेषु नः शुचा ॥ ५३ ।। इति तस्य नितम्बिनीजनप्रबलाक्रन्दितगाढदुःखतः । स्फुटति म किल द्विधा नभः ककुभो भङ्गमिवाययुस्तदा ॥ १४ ॥ (कुलकम्)
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy