________________
२२२
काव्यमाला ।
मदनासहं सहोदरमवलोक्य ततोऽवदत्सुदेष्णा तम् । प्रेया महोत्सव मिषान्मदिरार्थ मन्दिरमियं ते ॥ ६३ ॥ मधुमधुरवचनरचना विचित्रवाग्भिस्तथेयमनुनेया । अलिनो नलिनीव यथा सुमुखी विमुखी न ते भवति ॥ ६४ ॥ इत्येष सहोदरया विहिताश्वासो ययौ निजावासम् । पशुरिव गुरुणा तरुणीरूपगुणेन प्रबद्धोऽपि ॥ ६५ ॥ तेन मनोऽतिमनोज्ञां रमणीमभियोजितं ततो मनसा | साधु कृतज्ञेन कृतं तस्य पुरस्तन्मयं भुवनम् ॥ ६६ ॥ शिशिरैः पदार्थविसरैरुरो न तस्याससाद शिशिरत्वम् । तस्योरसा रयात्पुनरासशिशिराण्यशिशिराणि ॥ ६७ ॥ शिशिरोपचारतरलं परिवारजनं जगाद स तदानीम् । मृदुमन्थरशिथिलोहितवर्णपदं समदमदनार्तः ॥ ६८ ॥ अन्तः परितापभिदे तथ्यं पथ्यं हि न बहिरुपचारः । अमृतमधुरं तदधरसंमुखरसनौषधं कुरुत ॥ ६९ ॥ कदलीदलपटलमदश्चालयत कथं यदस्य पवनेन । वर्धेत दावपावक इव हृदि न तु दीप इव विरहः ॥ ७० ॥ हृदि धृततत्कुचकलशे स्मरशररन्ध्रेषु चञ्चलैः प्राणैः । ज्वलितवियोगानलजुषि मलयजपङ्कोऽतितापाय ॥ ७१ ॥ इति दीनतदीयवचः प्रचयविलीनावलेपदृढलेपाः । जलतरलकातरदृशोऽभूवन्नवरोधसुदृशोऽपि ॥ ७२ ॥ परिवृढदृढविकलतयाकुलितस्वान्तेन परिजनजनेन । दूती सपदि नियुक्ता गत्वा निजगाद सैरन्ध्रीम् ॥ ७३ ॥ देवि यदादि विलोचनगोचरतां तेन गमितासि । स तदादि हृच्छयशिखीमुखविद्धस्त्यक्तसंज्ञोऽभूत् ॥ ७४ ॥ स्मरशरभर परिविद्धे तितउतुलां सुदति तस्य हृदि याते । भवदाशाबद्धपथैर्न निर्गमोऽलाभि भृशमभिः ॥ ७९ ॥ १. 'विद्धाङ्गो विसंज्ञो' ग.