________________
१८१
३वनपर्व-१सर्गः] बालभारतम् ।
हृते कृपाणेऽप्यकृपाणिपाणिपातैः क्षिपन्मङ्ख शिलाकुलानि । भीमानुभूरेष पुरो रुरोध क्रोधैकधीरः प्रधनेऽन्धकारिम् ॥ ३९॥ क्षीणद्रुपाषाणगणायुधोऽथ प्रफुल्लमल्लत्वविधिः स धीरः । करेण धृत्वा चरणे स्मरारिमबिभ्रमजैत्रपटीमिवाजौ ॥ ४० ॥ चूडागलगाङ्गजलः कपाली शूली जटालः स्फुटबालचन्द्रः । प्रत्यक्षतां तस्य गतस्त्रिनेत्रः क्षणेऽत्र सत्त्वप्रसरेण तुष्टः ॥ ४१ ॥ पृथाभवाय प्रथितस्तवाय ततः प्रभुः पाशुपतास्त्रमस्मै । अमानवक्षेप्यमदान्मदान्धसुरासुरश्रेणिजयोज्ज्वलश्रीः ॥ ४२ ॥ दास्यत्यसौ नः सुपतीनितीव देवीभिरभ्यार्चि स पुष्पवृष्ट्या । तदा (लक्ष्मीमदगर्जिताभो नभोऽन्तरा दुन्दुभिरुन्ननाद ॥ ४३ ॥ एष प्रसन्नरथ पर्यवारि वृन्दारकैरिन्द्र इवेन्द्रसूनुः ।
दात्ते सुमनस्त्वभाजः प्रभोः सुतेऽपि प्रभुवत्प्रभुत्वम् ॥ ४४ ॥ प्रस्खापनास्त्रं धनदः प्रचेताः पाशान्ददौ दण्डधरश्च दण्डम् । जगज्जयाशीभिरुदारवीरमुदीरयन्तः वयमित्यमुष्मै ॥ ४५ ॥ धन्योऽधुना मातलिसारथौ तं रथेऽधिरोप्य प्रथमानमानम् । द्विषनिकायद्रुमसूदनाय धुनायकः स्वर्भुवनं निनाय ॥ ४६ ॥ [तेत्रोर्वशी वासवनन्दनेन निराकृता मातरिति प्रजल्पन् । षण्डो भवेति प्रशशाप शाक्रि भग्नाभिलाषा वसतिं जगाम ॥ ४७ ॥ अबोधयद्देवपतिस्तनूजं दुःखातुरं पार्थ त्रयोदशेऽब्दे । शापोऽपि वो गुप्तविहारचर्या(?) मत्स्याधिवासे वरवद्धि भावि ॥४८॥] अर्धासने तं विनिवेश्य शक्रः किमेतदेतत्परिपृच्छतो मे । साक्षान्नराख्यानयुतं समस्तमिदं चरित्रं कथयांचकार ॥ ४९ ॥ सगद्गदस्मेरमुखे सहर्ष दृग्बद्धबाष्पाम्भसि हृष्टरोम्णि । ईदृक्चरित्रश्रवणामृतौघमन्नाशये भूभुजि सानुजेऽपि ॥ ५० ॥ पुनर्मुनीन्दुर्निजगाद राजन्भूतीर्थयात्रासु मयि प्रवृत्ते । इदं मदीयेन मुखेन पार्थः कृतप्रणामस्तव संदिदेश ॥ ११ ॥
(युग्मम्) १. 'चूलाचल' क-ख. २. इमौ श्लोको केवलं क-पुस्तक एव दृश्येते.