________________
१६०
काव्यमाला।
यशो वर्षन्सुवेलाद्रौ तच्चमूरजनीचराः ॥ १३२ ॥ इत्थं जयजुषा तेन समर्थेन समन्वितः । ववले कलयन्कीर्तिमर्जुनामर्जुनानुजः ॥ १३३ ॥
इति दक्षिणदिग्विजयः॥ नकुलस्तु महीपालकुलस्तुतपराक्रमः । प्रपञ्चयंश्चमूवीची प्रतीचीमभिचेलिवान् ॥ १३४ ॥ परिभ्रष्टयशः पुष्पा मरुतेव प्रसर्पता । कम्पयांचक्रिरे तेन के न भूपतिभूरुहाः ॥ १३५ ॥ अन्धानां सैन्यधूलीभिर्बधिराणां च भेरिभिः । निःशकं द्विषतां लक्ष्मी रसादभिससार तम् ॥ १३६ ॥ विपक्षपक्ष्मलाक्षीणां क्षीणां कुर्वन्मनोरतिम् । श्रीकार्तिकेयभवनं रोहीतकमुपाद्रवत् ॥ १३७ ॥ दिहाराभयशोरोही रोहीतकपुरस्पृशाम् । शूराणां द्रावयन्मत्तमयूराणां रणोत्सवम् ॥ १३८ ॥ चमूभरनमद्भूमिदूरोन्नतकुलाचलः । महाक्षत्रकृतावेशं मरुदेशं विवेश सः ॥ १३९ ॥ (युग्मम्) वसिष्ठाश्रमजैर्वृक्षरर्बुदाद्रौ सदाफलैः । तत्सैन्यास्तापममुचन्बहिरन्तश्च मार्गजम् ॥ १४९ ॥ स वसिष्ठमखोत्थानां विश्वामित्रजितामपि ।। तत्र धात्रीभृतामन्यैरनुच्छिष्टं पपौ यशः ॥ १४१ ॥ तस्य सैन्येभदानार्दै हतवीराश्रपङ्किले । द्विषत्कान्ताश्रुभिन्द्यो जाङ्गलेऽपि स्थलेऽवहन् ॥ १४२ ॥ शिरीषकाशिबीन्हैमांत्रिगतीम्बष्ठमालवान् ।
१. दिग्दारा' क; 'दिग्धाराभ' ग. २. 'चभूनर' ख. ३. 'शिरीषांश्वाशिवी' क; 'शैरीषका' ग. ४. 'नर्त' ग.