SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२२ काव्यमाला । 'पततां वनात्त्वरितमुत्पततां पतितं रवेण वपुरेव भुवि । पवनेन पार्थशरसार्थहता छदपद्धतिस्तु दिवमेव ययौ ॥ ९ ॥ अथ यक्षराक्षसतुरङ्गमुखप्रमुखैररण्यपुरुषः सरुषैः । -उपशान्तये हुतभुजः स्वभुजप्रथिताम्बुपात्रमभितः स्फुरितम् ॥ १० ॥ प्रहितस्य शान्तिजननाय जनैर्ज्वलने जलस्य न लवोऽप्यपतत् । अतिदूरतोऽप्यतुलतापवशात्परिशोषितस्य नभसि स्फुरतः ॥ ११ ॥ मिलितैरतीव वनवासिजनैः प्रहितं पयो बहु दवज्वलने । अशनान्तरालजलपानकलां कलयांबभूव तरुभारभुजि ॥ १२ ॥ जलमानयन्घटघटी पेटलैज्र्ज्वलनोपशान्तिकृतये किल यत् । स्वतनौ तदाशु परितप्ततरा निदधुर्न वस्तुनि जना ज्वलिते ॥ १३ ॥ अभितो भुजान्दहनशान्तिधियां चरणानपि त्वरितनाशभृताम् । अभिदत्पृथाजनिरनेकशरप्रसरै रथाङ्गपतनैश्च हरिः ॥ १४ ॥ अभितस्त्वमेव परिरक्ष शिखी भवतः सखा दहति संप्रति नः । पृषदश्वमेतदिव वक्तुमगुर्गुरुफालया गगनवर्त्म मृगाः ॥ १९ ॥ घनहर्षहेषितभृतस्तुरगाः स्वयमेत्य पेतुरनले ज्वलति । मरणे नितान्तनियते भयतो न महस्विनः परिहरन्ति महः ॥ १६ ॥ दशनैर्देदार यदुदारभयः किरिसंचयः किमपि भूवलयम् । विपिनं प्रदीपयति तद्दने खनति स्म कूपमिव मूढमतिः ॥ १७ ॥ अपवैरमग्निभयतोऽनुगता हरयस्तलेषु करिणां शरणम् । निहताः पतद्भिरथ तैरपि ते क्व फलत्यकृत्यमभिमानमुचाम् ॥ १८ ॥ बिलनिर्गमे समणयः फणिनो यदधुः स्फुलिङ्गयुतधूमकलाम् । नितरामधो जगदपि ज्वलितं वनसीम्नि तेन दहनेन ततः ॥ १९ ॥ सरिदम्बुचूर्णितपरिज्वलिताचलनागवल्लिदलपूगफलैः । कवलीकृतैरिव तदा विपिनेऽरुणजिह्व एव विललास शिखी ॥ २० ॥ १. 'पृथाजनुः' क. २. 'अधिपः' क ख ३. 'व्यदारयदुदारभयः' क-ख. ४. 'हरिसंचय:' ग; 'करिसंचयः क. किरयः कोला:.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy