________________
१आदिपर्व-११सर्गः] बालभारतम् ।
धुरि मधुरिमभाजां कौमुदी हन्त लभ्या ___ व पुनरपि गतेऽसिन्नोषधीनामधीशे । इति चरुनिचयान्तः संग्रहं शीघ्रमस्या
व्यतनुत जनतासौ धेनुदुग्धच्छलेन ॥ १३ ॥ अजनि जनितनिद्राकृष्टियन्त्राभलक्ष्म्या ___ गगनगहनगर्भे चन्द्रमाः कूपरूपः । इह पुनरुपशान्ते तत्प्रभानीरसेके
व्यहरत हरितालीबन्धुरध्वान्तमेतत् ॥ १४ ॥ तिमिरकरिकदम्बैरम्बरोत्तालतल्ला
त्कवलितमिदमुच्चैर्निर्भरं चन्द्रिकाम्भः । अथ पृथुतरताराम्भोजिनीकन्दवृन्द
क्षयसमयमवेक्ष्य प्रस्थितो राजहंसः ॥ १५ ॥ अभिनवमधुगन्धाबन्धसंधावदैरा
वतमदमधुपालीपक्षवातप्रणुन्नैः । अरुणकिरणदम्भाद्गुप्तसप्ताश्वलीला
सरसिरुहरजोभिर्दिग्बभौ जम्भजेतुः ॥ १६ ॥ निशि विकसितवन्ति प्रापुरक्षीणि किंचि
प्रियतमरमणीनां कैरवाणीव निद्राम् । रथविलुलिततारालोलरोलम्बभाजि
द्रुतमुषसि विकासं नीरजानीव भेजुः ॥ १७ ॥ अपृथुपथविलासायासपाणिंधमाभि
मधुकरनिकराणां मैहिरेयीं गिराभिः । अलभत न समन्तान्मीलितुं नीलपङ्केरुहगहनदलाली किंचिदाकुञ्चितापि ॥ १८ ॥
१. 'चरु मृत्तिकापात्रम्' इति क-पुस्तकस्था टिप्पणी. २. तल्लो जलाधारविशेषः, ३. सूर्यसंबन्धिनीम्.
१५