________________
१०६
काव्यमाला ।
काचिदन्ययुवतिभ्रमदत्तक्रोधमुक्तमदलब्धविवेका ।
ह्रीमती मदवशात्प्रणतेऽस्मिन्खेलति स्म कृतकेन मदेन ॥ २६ ॥
( युग्मम्)
दत्त प्रमुख प्रतिबिम्बे प्रोल्लसद्रसवशान्मधु पीत्वा । कापि तत्क्रमसमुज्झितमौग्ध्या प्रौढिमाप्य रमणी रमते स्म ॥ २७ ॥ निःसृतोऽपि हृदयादभिमानः प्राप्यते क्व पुनरीहगितीव । स्त्रीजनस्य रसनाञ्चल दोलाखेलनानि वचनैः क्षणमाधात् ॥ २८ ॥ हृ मधुवशान्मधुबन्धोरपिंते रतियुतस्य वधूभिः । तत्पराभववशादिव मानो निर्जगाम हियमेव गृहीत्वा ॥ २९ ॥ उद्धतः पिहितकानुर्ज्या टंकृतिव्यतिकरोऽजनि यूनोः । भावनिर्भरपरस्परहस्तोत्तालतालसरसः परिहासः || ३०॥ ताः प्रतिक्षणविलक्षणतोषक्रोधहास्यरुदितादिविकाराः । चक्रिरेऽद्भुतमदा मदिराक्ष्यः प्रीतिमेव हृदये दयितानाम् ॥ ३१ ॥ यद्वदन्त्यशनसंनिभमेवोद्गारमित्यनृतमत्र बभासे ।
गीतकं यदुदगार सुधावत्पीतसीधुभिरपि प्रमदाभिः ॥ ३२ ॥ गीतकं मृदुपदेन तदानीं यन्मदेन जगुरम्बुजनेत्राः । षट्पदास्तदलपन्खलु लोलाः सीधुगन्धिमुखपानमिषेण ॥ ३३ ॥ योषितो विदधिरे मृदु गीतं नृत्यकर्म च रतिर्मृदु चक्रे । मन्मथो मृदु ततान च मौवनादवाद्यमिह रागरसाय ॥ ३४ ॥ आवहद्भिरतिरूपगुणस्य स्फीतिमातिशयिकीं मदयोगात् । रागिणां चकृषिरे च मिथोऽङ्गैश्चञ्चलानि मदवन्नयनानि ॥ ३५ ॥ कामिनीजनकुचेषु मनोभूराज्यपुण्यकलशेषु विलेसे । द्वारि वारिजनिभैस्तदनन्य प्रेक्षणप्रतिमितैः प्रियनेत्रैः ॥ ३६ ॥ लोचनद्वयमदारमरीचिस्फारवीचिनि तरत्तरुणस्य ।
योषितो वपुषि नाभिगभीर। वर्तमन्नमिदमुत्पततु क्व ॥ ३७ ॥ दृमृगद्वयममन्दमनो भूकाण्डपाततरलं तरुणानाम् । श्रोणिशैलशिखरेषु निखिन्नं त्रासखिन्नमिव मुग्धमुखीनाम् ॥ ३८ ॥