________________
१ आदिपर्व-७सर्गः] बालभारतम् ।
पुष्पायुधस्य नवकार्मुककाण्डमार
वाहीककिंकर इव त्रिजगद्विजेतुः ॥ ३७ ॥ पश्य स्वभावमधुराणि मधूकगुल्मा
द्रुञ्जन्मधुव्रतवधूनि मधूनि पीत्वा । उच्चैस्तरेषु कलितस्खलितः समीरो
वात्येष मत्त इव हासितवल्लिपुष्पः ॥ ३८ ॥ किंकिल्लिपल्लवकरा स्मितपङ्कजास्या
कर्णीयकोकिलरवा मधुरा मधुश्रीः । आभाति मञ्जुलकुचाश्रयचन्दनाक्त
काश्मीरपत्ररचनायितपुष्पपङ्क्तिः ॥ ३९ ॥ आपत्य चम्पकधिया नवकर्णिकार
पुष्पेषु गन्धरहितेष्वपि चञ्चरीकः । प्रीतो मधूनि रसयत्ययमन्यपुष्प
सौरभ्यसंभृतनिजाननवासितानि ॥ ४० ॥ कौन्तेय पश्य वनसीमनि दूरकृष्ट
कालायसासितशिलीमुखचक्रवालः । पान्थान्विकम्पयति केशव किङ्किरातः
कोऽप्यत्र निष्कृपमना ननु 'किङ्किरातः ॥ ११ ॥ शुभ्रप्रभे करुणिकाकुसुमे विभाति .. श्यामोऽथवारुणरुचौ नवकाञ्चनारे । इत्थं स्मरन्निव मुहुर्महनीयतार्थी
भृङ्गीपतिः स्फुरति तत्र च तत्र चायम् ॥ ४२ ॥ एलावने कुरुबकस्तबके प्रियाले
कैकोलके दमनके नवमालिकायाम् । १. अशोकः. 'कर्णावतंसीकृतकिङ्किरातैः' इत्युदारराघवम्. २. कामः. 'हेमालंकारभाभिर्भरनमितशिरःशेखरैः कैङ्किरातैः' इत्यत्र किङ्किरातस्य कामस्येमे कैङ्किराताः का. मिन इत्यर्थदर्शनात्. ३. 'ककोलके' इत्युचितम्.
-
-