SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ शिखण्डतिलकस्य तनया कन्यारत्नमुदयसुन्दरी विष्णुनेव रत्नाकरदुहिता लक्ष्मीरुपलब्धेति । संभाव्यते कथेयमुदयसुन्दर्याः कविना समवलोक्य स्वमतिदर्पणे सहीतेति । प्रयुङ्क्ते चायं कविविरलप्रयोगानि पदानि कचित्कचित् , यथा “भानुमतेव पद्मः” (पृ. १५४) इति पुल्लिङ्गपद्मशब्दम् । सौन्दर्यार्थे लडहशब्दं च " लडहलाटीकटाक्षः” (पृ. ८५) इति । अयं च लटभशब्दस्य विकृतं रूपं देशीयमिति केचित्, परे तु संस्कृत एव गणयन्ति । तथा छटकशब्दं च विनुषि, अस्य शब्दस्यास्मिन्नर्थे प्रयोगस्तु न दृष्टपूर्वोऽस्माभिः, देशे तु तत्र तत्र व्यवहृतिपदे छाट, छाण्ट, इत्यस्ति प्रयोगः । प्रायश्छटाशब्दस्य विकृतेनानेन भाव्यम्, शोभते नाम कवीनामेतत् । निरङ्कुशा हि कवयः। अयं च चम्पूप्रबन्धः परिशील्यमानः पुराऽयं गूर्जरदेशो मधुमयफणितीनां वश्यवचसा बाणभासादिभिस्समरेखामनुविशतां महाकवीनामास्पदमभूदित्यवगमयति । कीर्तिशेषेण श्रीमता चिमनलालदलाल ( Late Mr. C. D. Dalal, M. A. Librarian, Central Library, Baroda.) महाशयेन पुस्तकमेकमेवास्य शेठवाडीलाल हीराचन्दद्वारेण पाटणनगरस्थपार्श्वनाथपुस्तकालयतः (loan) प्रत्यर्पणं प्रतिश्रत्य संपादितम् । महताऽपि प्रयत्नेन पुस्तकान्तरं नालभ्यत । एकमेव पुस्तकमिदमादर्शतयाऽबलम्ब्य तेनैव महाशयेन चत्वारिंशत्पत्रपरिमितो निबन्धस्यैकांशो मुद्रणपदं प्रापितः । एतस्मिन्नन्तर एव विधिविपरिणामेन कालस्य वशमापद्यत । अनेन च पण्डितप्रकाण्डेन काव्यमीमांसाप्रभृतयो बहवो निबन्धास्सम्यक् परिशोध्य प्रकाशिताः । अस्य चाल्सीयस्येव वयसि समुत्पन्नं निधनं विशेषतो वटपत्तनराजकीयपुस्तकालयस्य गैर्वाणांशे हानये, अथ काले प्रभवति किमनुशोकेन । अथ तत्राधिकृतैरवशेषपरिशोधनेऽनुयुक्तेन मया यथामति परिशोधितोऽयं निबन्धः । परमेकमेव पुस्तकम्, प्रायस्संवलितमशुद्धन, मतिश्च नस्सावधिः, स्यानाम स्खालित्यम्, क्षन्तुमर्हन्ति पण्डिताः । अथ चादर्शपुस्तके कचित्कचित्पदानि वाक्यानि च भूयो विगलितानि । सेषां चानतिकठिनेऽपि पदे स्वमतितः पूरणं महाकवेर्गभीरहृदयस्यास्य वाधुनिष्यन्दे दूषणमापादयेदिति तत्र यत्नो विशेषतो न व्यवधायि । यदि स्याद्गुणलेशोऽत्र तुष्यन्त्येव तु पण्डिताः । तुष्याम्यहं तु दोषेण ज्ञापितेनेह बोधितः ।। एं. कृष्णमाचार्य. . प्रधानाध्यापक, संस्कृत पाठशाला वृत्तालय (वडताल)
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy