________________
एशियाटिक सोसाईटी इत्यत्र (Journal of Bombay Branch, Royal Asiatic Society. Vol. XII, Page 329 ) प्रकाशितः । एवमनयोस्समयनिश्चयेनास्य कवेस्समयश्श. कस्य दशमशतके, एकादशे क्रैस्तशतके (11th Century ) छित्तराजमुम्मणिराजयोस्समयमभिसं. बध्य भवतीति निश्चीयते।
प्रबन्धस्यास्य प्रणयनसमयस्तु शकस्य द्विसप्तत्युत्तरनवशततमाब्दात् (९७२, 1050 A. D.) प्रायः प्रागेवेति संभाव्यते यदयं कविः “ शूर्पारकात् समागतेन" (पृ. १५६. प. २) इत्यादिना वचनसन्दर्भेण जीवत्येव वत्सराजे निबन्धस्यास्य समाप्तिं ज्ञापयति । तेन च वत्सराजेन द्विसप्तत्युत्तरनवशततमे (९७२) कीर्तिशेषेणैव भाव्यमित्यस्ति संभावनास्पदम् , यदस्य चौलुक्यकुलोद्भवस्य लाटदेशाधीश्वरस्य वत्सराजस्य सूनुत्रिलोचनपालः प्राप्तराज्यभारो विधाय वार्धके ग्रामदानं द्विसप्तत्युत्तरनवशततमे शकाब्दे (९७२, 1050 A. D.) दानशासनं व्यलेखयत् । अयञ्च लेखः ईण्डियन् एण्टिक्वेरी इत्यत्र ( Indian Antiquary, Vol. XII, Page 196) प्रकाशितः, तदस्मिन् दानलेखसमये पित्रा हि वत्सराजेन नामशेषेणैव भाव्यम् ।
एवं शकस्याष्टचत्वारिंशदुत्तरनवशततमाब्दात् (९४८, 1026 A. D.) अनन्तरमेव च प्रबन्धस्यास्य समयेन भाव्यम्, यदयं कविरेतत्प्रबन्धनिर्माणसमनन्तरं कतिपयैरेवाहोमिराहूय सम्मानितस्सभायां मुम्मणिमहाराजेन राज्यश्रियमुबहतेति विज्ञायते निबन्धान्ते, तथाह्याह " मित्रैर्धीमद्भिराप्तैश्च बन्धुभिश्चानवरतमापृच्छयमानवृत्तान्तो विलोक्यमानप्रबन्धः प्रशस्यमानगुणश्च विश्राम्यन् कियन्त्येव यावदास्ते दिनानि, तावदेकहेलयैव x x x x x मुम्मणिमहाराजस्यान्तिकादाजगाम " (पृ. १५५. प. १८) इत्यादि । अष्टचत्वारिंशदुत्तरनवशततमाब्दे तु (९४८, 1026 A. D.) छित्तराजो राज्यश्रियमवहत्, ततः परमेव नागार्जुनस्ततस्तुमुम्मणिमहाराजः, आहच कविरयमादौ " सोदरेणक्रमोपभुक्तराज्यसंपदा राजत्रयेण प्रतिपद्यमानः (पृ. १२-प. १८) इति, तस्मात् यद्ययं प्रबन्धः अष्टचत्वारिंशदुत्तरनवशततमाब्दे ततः पूर्व वा विरचितस्स्यात् मुम्मणिमहाराजविरचितं प्रबन्धानुश्रवणं पारितोषिकवितरणं च कथं घटेत, तथासति तदिदं प्रबन्धानुश्रवणं पारितोषिकवितरणं सर्व छित्तराजे संभाव्येत । ।
यत्पुनश्श्रीमता चिमनलाल् दलाल् महाशयेन काव्यमीमांसायां प्रस्तुतम्, उदयसुन्दरीकथानिबन्धस्य समयः प्रायः संवत् १०३० इति तत्तु न नो हृदयपदमधिरोहति ।
__ यदपि लाइब्रेरी मेसलेनि (Library Misscellany) इत्यत्र "अनन्तपालस्य सं० (१०१६) ताम्रपत्रे नागार्जुनमुम्मणिराजयो मोत्कीर्तनेन कवेस्समयो विक्रमस्यैकादशशतकस्य पूर्वार्ध इति विनिश्चीयते " इति तेनैव महाशयेनोक्तं तदपि शङ्कास्पदमिव, अनन्तपालो ह्ययं नागार्जुनस्य सुनुः, तस्मिन्नेव ताम्रलेखे " श्रीछित्तराजो नृपतिर्बभूव....... ततोऽनुजस्समभवन्नागार्जुनः मापतिः ... 'तदनु तदनुजन्मा मुम्मणिक्षोणिपालः । तस्मिन् नृपे कीर्तिशरीरभाजि नागार्जुनस्य तनयो ....... 'सोलारगौत्रनृपरत्नमनन्तपालः” इति ह्याविष्कृतम्, शकनृपकालातीतसंवत्सरदशशतेषु षोडशाधिकेष्विति च (श. १०१६) वत्सरगणनाऽपि प्रकाशिता, अयं च ताम्रलेख ईण्डियन् एण्टिक्केरि ( Indian Antiquary, Vol. 9, Page 33) इत्यत्र प्रकाशितः । तत् कवेः काव्यस्य वा नायं समयः ।