________________
उदयसुन्दरीकथा।
१५१ लेन चेतसा झगित्युद्भूतकोपश्चाहं सरस्वत्याः प्रसादशिष्योऽयमित्यविमृशन्आः ! ! स्वगर्वगरिमापहस्तितसमस्तगुणिवर्ग रे कविवटो पठति मय्येवमवज्ञया स्तम्मीभूय दृषदिव स्थितोऽसि तद्यथेच्छमिह स्थितोऽसि तवामुना दुनयविपाकेन पाषाणप्रकृतिरेव भूत्वा मर्त्यलोके सरस्वत्यालये कचित्कालं क्षपथिष्यसीतिशापमत्र सरस्वतीप्रख्येच कविकुलस्य क्रोधान्धकारितप्रज्ञःप्रयुक्तवान्।
अहह ! ! ! किं किं किमेतद्वाणस्य वृत्तमिति तत्कालविहितहाहारवैः सर्वैरपि तैस्तत्रोपविष्टैः कविभिरस्यानुग्रहाय शापान्तकृते च कियतोऽप्यन्तरान्तरा दृषद्भावापदोऽस्य जंयाग्रहमभ्यर्थितेन पुनर्मया भवतु तस्मिन्नायतने सदैव दीपप्रभासंपर्कात्सकलशास्त्रावबोधनिर्मलमतिः कवितारहस्यवेदी मर्त्यशरीरेण द्विजो भूत्वा रजनीषु दृषवस्थापगमसमुपस्थितं सौख्यमासादयिष्यति मदेकश्लोकानवधारणोपलब्धशापस्तु यदा हि कवेः सोडलस्य कृतिरपूर्व उदयसुन्दरीति चम्पूप्रबन्धस्तमभितः श्रुत्वाऽवधारयिष्यति तदाऽस्य शापान्त इत्यखिलकविजनोपरोधादेतद्वितीर्णनिजदुर्नयपरिहारकोत्पन्नाच महतोऽनुतापदिनु (........? )गृहीत्वा कमण्डलुइचुलके जलं बाणस्यैव शापेन मां शप्तवती।
मया तु सप्रश्रयमनुग्रहार्थमुपरुद्धा ननु बाणस्य सन्निधिमनुज्झतस्तवाप्यस्यैव शापान्तेन शापस्य पर्यवसानमिति प्रसन्नया गिरा मामनुजग्राह ।
तेन च तत्क्षणे तस्मात्समकालमुभावप्यावां तथैव यथोपकल्पितया मूर्त्या झगित्यवतीर्णावस्मिन् । अस्मिन्नपि निर्मानुषारण्यगहरगतं शून्यमायतनं देव्या इति प्रतिनिशमतिश्रद्धया मनुजदृष्टेरगोचराभिर्वनदेवताभिः स्वभावात् द्युतिशिखामात्रक एव सदैव दीयते स्म सुकृतेन दृषद्भावदौस्थ्यापनुत्तिहेतुरसौ प्रदीपः।
अथ ततः प्रभृत्येव महायतने स्थितिरेतावन्ति दिनान्यावयोरभूदद्य पुनः सकललोकोपकारिभारतीप्रसरस्त्वमत्र सुकवे सहात्मनो निबन्धपुस्तकेनागतः श्रुतः प्रबन्धोऽवधारितश्च । तदनुभावादेष सखे शापस्य मोक्षः । नाम च तवैततन्नानृषिः कुरुते काव्यमित्यस्माकमवतारस्य विदितमेवास्ति । न केवलं नाममात्रकेणैव विदितोऽसि सर्वात्मनाप्यादित एव यथाकिल बालभावमापन्न: स्वर्लोकमनुगते पितरि प्रघनगुणसम्पदामास्पदेन प्रियवयस्येन लाटभूमीपते योगिराजस्य गङ्गाधरइत्याख्यावता मा(सू ? )नुना परिपालितः, सकलमनुजेन्द्रमुण्डताण्डवाचार्यचरितस्य च शौण्डीरनृपकुमारगणनाग्रणीभूतनाम्नो धाम्नस्सरस्वत्याश्चौलुक्यकुलाभरणनायकस्य कीर्तिराजसूनोः सिंहराजस्य