________________
उदयसुन्दरीकथा।
१४९ न्यासस्तु ममृणवर्णरचनादिभिर्गुणैराह्लादक एव अवसाम्, भणितिभङ्गीषु चान्यादृशमेव निवेशकौशलं लौकिकार्थस्य, किं वाऽन्यदपि । यत्किल कौकिली मायूरी माराली चेति प्रधानजातित्वं कवीनां तदपि क्वचित् किंचन समन्तादस्ति सम्यगतिव्यक्तमेवात्र ।
___तथा च कुवलयामोदसरसि मूर्छान्तसमुत्थितोदयसुन्दरीविलोकितस्य मलयवाहनस्य प्रक्रमे यथा
“ अत्रान्तरे ज्ञगिति तस्य मणेः प्रसंगा___ दुच्छिन्नमूर्च्छमपमुद्रविलोचनाऽसौ। वेगोत्थिता धृतकराग्रमनङ्गरूप..
मग्रे नरेन्द्रमवनीतिलकं ददर्श ॥" अत्र प्रमितिपेशलेव वर्णगुम्फे सप्राणत्वादोजस्विना विभिन्नपदापगतदैर्येण कोकिलरवानुवर्तिना वाणीगुणेन वैदर्भीरीतिमनुसरन्ती प्रकृष्टा कौकिली जातिः। मायाबलं प्रतिसमरमध्यासितस्य मलयवाहनस्य वीरोक्तौ यथा" सर्वत्राङ्गेषु वल्गद्धनगहनशिखाचक्रचण्डारकोटि
त्रुट्यत्पिङ्गस्फुलिङ्गोड्डमरपरिकरणामुनैवाग्निना ते।" अत्र सौष्ठवोद्रेकवाहिनि वर्णबन्धे घनप्राणच्छा(त्वा ? )दोजःप्रधानेनैव समस्तबहुपदायामसरलेन मयूरकेका(नुका)रिणा वाणीगुणेन गौडी रीतियूरी जातिः। चन्द्रोदयवर्णने च यथा___“कमलिनी भुवनान्तरिते रवौ ____ व्यपगतालिकलापशिरोरुहा । परिदधे विधवेव सुधाकर-.
द्युतिवितानमिषेण सितांशुकम् ॥" अत्र च शैथिल्यशालिनि वर्णसन्दर्भे निष्पाणत्वान्निरोजस्त्वात्स्वल्पपदसमासानतिविस्तृतेन हंसस्वनानुगामिना वाणीगुणेन पाञ्चालीमंशतः श्रयन्ती माराली जातिः । गद्येऽप्येवमेव च यथोक्तगुणमनोहर एव संवृत्तस्ते प्रबन्धः । किमन्यदेवमेव हेतुरस्मदात्मलाभस्य, तदेष पृच्छयसे, वाञ्छितं सिडमधुना, स्वत्तः कृतार्थीभूय यामो वयमहो विद्वन्, ! इति प्रश्रयपुरस्सरमुदीरिते तेन स खलु कविरुत्पन्नविस्मयो मिलितकरकमलसंपुटोपलक्ष्यमाणवृत्तिना विनयेन साभ्यर्थनमुवाच ।